This page has not been fully proofread.

द्वितीय आश्वासः ।
 
त इति । अतो
 
द्धेतो: ते असुरा अक्षमया आस्तिक पक्ष
प्रतीया हेतुना द्रतं वेगेन अक्षमयेषु रुद्राक्षस्वरूपेषु बलयेषु... नबन्धेषु
स्फोटं भेदनं कर्तुम् ईपु: इच्छां कृतवन्तः । प्रभोः शिवास्यानेकं बहु-
स...... लयं विभिदुः क्षुण्ण रौः भवनमने भवस्य शिवस्य नमने नमस्कारे
 
विषये कं शिरः व्यतानि कृतम् न कैरपि ॥ ३८ ॥
 
सर्वेऽपि शिवनमस्कारपर। ङ्मुखा आसन्नित्या (ह) -
 
निश्शङ्कं पादानां पातैः प्रतिमां प्रभोः सकम्पादानाम् ।
कर्तुं भवनेऽत्रेषुः श्रेयः क्व पराङ्मुखेषु भवनेत्रेषु ॥ ३९ ॥
 
निश्शङ्कमिति । अत्र अस्मिन् स्वैर्भिन्न भवने शिवालये पादानां चरणानां पातैः
प्रभोः शिवस्य प्रतिमां प्रतिष्ठितं लिङ्गं सकम्पादानां कम्पश्चलनं तस्यादानं स्वीकारः
तत्सहितां कर्तुं निश्शङ्कं निर्गता शङ्का भयं यथा तथा ईपुः इष्टवन्तः । शिवलिङ्गान्यप्युन्मूल-
यामासु रित्यर्थः । नम्वत्यन्तभक्तास्ते कथमेवं कृतवन्त इत्यत्राह- श्रेय इति । भवनेत्रेषु
शिवदृष्टिषु पराङ्मुखेषु सल्यु क्व श्रेयः कुशलं, न कापि । दैवे प्रतिकूले
सर्वेष।मप्यकुशलमेवेत्यर्थः ॥ ३९ ॥
 
अथ देवा: नारदमुखेनासुर स्त्रियोऽसन्मार्गे ... रित्याह-
नारदनामा ज्ञातः परमर्षियः स नाकिनामाज्ञातः ।
 
तेषां शुद्धान्तरतः स्त्रीणां धर्म निराल शुद्धान्ततः ॥ ४० ॥
 
त्याजयामासेत्यर्थः ॥ ४० ॥

 
७५
 
L
 
नारदेति । यः परमर्षिः उत्कृष्टो मुनिः नारदनामा नारद इत्याख्यावान् ज्ञातः
लोके ख्यातः । स नाकिनां देवानां आज्ञातो नि (देशात् ते ) षामसुराणां शुद्धान्तरत:
शुद्धान्तेऽन्तः पुरे रतः सन् तेषां स्त्रीणां भार्याणां शुद्धान्तरतः शुद्धं विहितधर्मानुष्ठानैक-
परत्वान्निर्दोष धर्मं पातिव्रत्यादिकं निरास निरस्तवान् । धर्मस्य कर्तव्यता बुद्धिं
 
43