This page has not been fully proofread.

सव्याख्ये त्रिपुरदहने
 
त्यजति । तत्र हेतुतया ईश्वरं विशिनष्टि अम्बरवासा इत्यादि । यः ईश्वरः
अम्बरवासाः अम्बरमाकाशं वासो वस्त्रं यस्य स तथा नग्न इत्यर्थः । यस्य
वरवासाय उत्कृष्टवासस्थानाय श्मशानभूमिश्च । योऽत्यन्ताशुचौ श्मशान एव वसती-
त्यर्थः । यो नृशिरसि नृणां शिरसि । शिरः कपालः तत्र, अन्धः अन्नम् अत्ति भुङ्क्ते
च । लोके हि नग्नत्वं श्मशानवासित्वं नृकपालधारित्वं चात्यन्तगर्हास्पदमेव । तथाविधः
परमेश्वर इति युप्मादृशा एव कथयन्ति । तस्मात् श्रेयोथिंभिः युष्माभिस्तत्सेवा न
कार्या इति भावः ॥ ३६॥
 

 
७४
 
इति द्वा
 
अथ हरिः प्रारब्धमर्थं यथामनीषितं घटितवानित्याह -
 
इत्थमसत्यध्वनिते व्यापारयतात्नमतमसत्यध्वनि ते ।
नाथेनास्थाप्यन्त श्रेयसि तेषां बभूव नास्थाप्यन्तः ३७ ॥
 
इत्थमिति । इत्थम् अनेन प्रकारेण आत्ममतं आत्मनः स्वस्य मतं नास्तिकवादलक्षणं
सिद्धान्तं व्यापारयता प्रवर्त्तयतां असुराणाम (पवा?नुपा) देयबुद्धिं जनयतेति यावत् ।
नाथेन जगत्स्वामिना विष्णुना तेऽसुराः असति अश्रेयस्करत्वाद् दुष्टेऽध्वनि नास्तिक
पक्षलक्ष गे मार्गेऽस्थाप्यन्त स्थापिताः । अध्वानं विशिनष्टि - असत्यध्वनित इति ।
असत्यं कल्पना रूपत्वान्मिथ्याभूतं ध्वनितमुक्तिर्यस्मिन् स तथा । एतदसत्त्वे हेतुः ।
तेषामसुराणां श्रेयसि धर्मेऽन्तर्मनसि आस्था (अभिनिवे) शोऽपि न बभूव । किंपुनः......
 
भावः ॥ ३७ ॥
 
-
 
तेषां न केवलं श्रेयस्यास्थाभाव एवासीद् अपि तु अश्रेयस्करं कर्म कृतवन्तश्च
 
भ्यामाह
 
-
 
ते द्रुतमक्षमयेषु स्फोटं वलयेषु कर्तुमक्षमयेषुः ।
 
बिभिदुर्भवनमनेकं प्रभोरतः कैर्व्यतानि भवनमने कम् ॥ ३८ ॥
 
42