This page has not been fully proofread.

द्वितीय आश्वासः ।
 
एवं प्रमाणतया आभासमानान्यनुमानानि प्रत्येकं निराकृत्य समुदायेनेतराण्यपि
 
-
 
निराकरोति
 
तस्मान्मान समृहे युष्माभिर्यत्र यत्र मानसमूहे ।
तत्तत् सच्चे नेष्टे महेशितुर्देहिनाल्पसच्चेष्टे ॥ ३५ ॥
 
७३
 
तस्मादिति । यस्मात् प्रमाणतया आभासमानानामनुमानः दीन। मपीश्वरसत्ता साधना-
यासामर्थ्य तस्माद्युष्माभिः मानसमूहे प्रमाणकदम्बके । निर्धारणे सप्तमी।
प्रत्यक्षानुमानागमार्थापत्त्युपमानाभावसंभवैतिषु मध्ये इत्यर्थ: । ( यत्र यत्न यस्मिन्
यस्मिन् मानसं मनः ऊहे ऊढं) तत्तत् प्रमाणं महेशितुरीश्वरस्य सच्चे सद्भावे
नेष्टे न प्रगल्भते । अनुमानादीनामप्यसामर्थ्य किमुतान्येषामिति भावः । तर्हीश्वरो -
इस्तीति कुतस्त्योऽयं प्रवाद इत्याशङ्काव्युदासाय सत्त्वं विशिनष्टि देहिनेति । अल्पसवेन
अल्पबुद्धिवलेन देहिना पुरुषेण इष्टेऽभिमते । 'राहो: शिरः' 'सालभञ्जिका-
याः शरीर' मितिबद्देहिनेति प्रयोगः । अन्यथा देहव्यतिरिक्तात्माङ्गीकारः प्रसज्येत ।
देहिनां शुभाशुभकर्मफलप्रदाता कश्चिदीश्वरोऽस्ति इति तस्माद् भयं जनयित्वा प्रबल-
कृतपीडां निवारयितुकामैर्दुर्बलैरुद्घोषित एवायमीश्वरसद्भाव इत्यर्थः ॥ ३५ ॥
 
अपिचाम्बरवासा यः श्मशानभूमिश्च यस्य वरवासाय ।
यो नृशिरस्यत्यन्धः श्रेयस्तत्सेवको निरस्यत्यन्धः ॥ ३६॥
 
-
 
-
 
एवं निखिलप्रमाणाविषयत्वेन ईश्वरासत्त्वं द्रढीकृत्य पुनर्येनकेनचित् प्रकारेण
ईश्वरसद्भावाङ्गीकारेऽपि तत्सेवा न कार्या इत्याह -
 
अपिचेति । अपिचेत्ययं निपातसमुदायः समुच्चये । अत्र सत्त्वे इति
षदमध्याहर्त्तव्यम् । सत्त्वेऽपिच ईश्वरस्य सद्भावेऽपि न केवलमसत्त्वे । तत्सेवकः
तत्येश्वरस्य सेवकः अन्धः कार्याकार्यज्ञानशून्यः श्रेयः अभ्युदयं निरस्यति
 
41