2024-01-01 06:20:09 by ambuda-bot
This page has not been fully proofread.
७२
सव्याख्ये त्रिपुरदहने
यदि वो माने नमति स्फुटं जगत्कर्तृकानुमानेन मतिः ।
जगतः कार्यत्वेन स्थिताः स्थ तदसिद्धितोऽधिकार्यत्वेन ॥ ३३ ॥
यदीति। हे असुराः चः युष्माकं मतिर्बुद्धिः जगतः प्रपञ्चस्य कार्यत्वेन कृतिसाध्य -
त्वेन हेतुना जगत्कर्तृकानु मानेन जगतः कर्तृकः कर्त्ता । स्वार्थे कः । तस्यानुमानेन क्षित्यादिकं
सकर्तृकं कार्यत्वाद् घटवत् इत्यादिरूपे (ण) । माने ईश्वरसत्ता साधके प्रमाणे (स्फुटं) नमति
प्रदीर्भवति । ईश्वरसत्तासाधकत्वमभ्युपगच्छतीत्यर्थः । तर्हि यूयम् अधिकार्यत्वेन प्रतिवादि-
युक्तिखण्डनादत्यन्तमहनीयत्वेन स्थिताः स्थ भवथ । तत्र हेतुमाह - तदसिद्धित इति ।
तस्य कार्यत्वस्य हेतोरसिद्धितोऽसिद्धेः । यदि जगतः (कार्यत्वं) येन केनचित् प्रकारेण
सिद्धं तर्हि युष्मत्पक्षः साधीयान् तत्तथा च न भवति । तस्मात् सिद्धत्वेन
हेतोराभासत्वात् खण्डिता एव यूयमित्यर्थः । नित्यसिद्धस्य जगतः कथं कार्यत्वमिति
भावः ॥ ३३ ॥
तर्हि माभूदनुमानपरं, ईश्वरसद्भावे श्रुतिः प्रमाणं भवतीत्यत्राह
L
या वागेकर्तारं ब्रवीति देवं युगे युगे कर्तारम् ।
सा हि समस्ता वितथा तया पुनर्देवता समस्तावि तथा ॥ ३४ ॥
या वागिति । या एका युष्मत्पक्षेऽपौरुषेयत्वेन मुख्या ऋता सत्या वाग्
वेदलक्षणा वाणी युगे युगे सर्गे सर्गे इति यावत् । कर्तारं जगत्स्रष्टारं देवमीश्वरं
(अरं) ब्रवीति व्यक्तं भाषते सा समस्ता कृत्स्ना वितथा मिथ्यैव । तस्याः स्वार्थे न
प्रामाण्यमित्यर्थः । तत्र हेतुमाह - तयेति । पुनश्शब्दो वाक्यालङ्कारे । तया वाचा
पुनः देवता आस्तिकजनमनोरथमात्रसिद्धा, ईश्वरः । तथा तेन जगत्कर्तृकत्यादिना
प्रकारेण समस्तावि अभिष्टुता । हि यस्मात् । यतो निखिलस्यापि वेदस्य स्तुति-
परत्वेन स्वार्थेऽप्रामाण्यमतः श्रुतिरीश्वरसद्भावे प्रमाणं न भवतीत्यर्थः ॥ ३४ ॥
40