2024-01-01 06:20:09 by ambuda-bot
This page has not been fully proofread.
द्वितीय आश्वासः ।
ईश्वरसद्भावे किञ्चित् प्रमाणं नास्ति । अस्ति चेद्वक्तव्यम् । तच्च वक्तुं न शक्यते ।
अभावादेव हेतोः । तस्मात् प्रमाणाभावे प्रमेयमण्यसदेव । तस्मान्महेश्वरसेवा न कर्तव्या ।
असतो महेश्वरस्य सेवा कर्तव्या चेत् शशशृङ्गेण किमपराद्धम् । तस्य सेवा च क्रियता-
मित्यभिप्रायः ॥ ३१ ॥
पूर्वत्र तात्पर्यवृत्त्या सिद्धं मानाभाव विवृणोति -
न पतति तं प्रत्यक्षं बुध्यध्वमतो निराकृतं प्रत्यक्षम् ॥
तत्स्थितिमानवलम्बः प्रमाणराशेस्ततः क्व मानबलं वः ॥ ३२ ॥
न पततीति । तं महेशं प्रति अक्षमिन्द्रियं चक्षुरादि न पतति प्राप्नोति । ईश्वरों
नीलपीतादिवदिन्द्रियाणां विषयो न भवतीत्यर्थः । अत एतस्मादक्षपाताभावाद्धेतोः प्रत्यक्षं
प्रत्यक्षाख्यं प्रमाणं निराकृतम् ईश्वरसद्भावसाधकत्वे निरस्तं बुध्यध्वं जानीत । ननु मा भूत्
प्रत्यक्षम् अनुनानादिरीश्वर सद्भावे प्रमाणमित्यत्राह - तत्स्थितिमानिति । प्रमाणराशेः
अनुमानादियमाणवर्गस्य अवलम्बः आश्रयस्वरूप इति यावत् । तत्स्थितिमान्
तेन प्रत्यक्षेण हेतुना स्थितिमान् प्रतिष्ठावान् । भवतीति शेषः । अनुमानादीनां
व्याप्तिग्रहणादिसापेक्षत्वात् प्रत्यक्षमन्तरेण स्वरूपलाभो न सिद्ध यतीत्यर्थः । यद्वा तदिति
पृथकूपदम् । तत् प्रत्यक्षं प्रमाणराशेः स्थितिमान् प्रतिष्ठावानवलम्बः । यत इत्थं ततः
तस्माद्धेतोः वः युष्माकं मानबलं मानेन प्रमाणेन हेतुना यद् बलं प्रतिवादियुक्तिखण्डने
सामर्थ्य तत् क्क न बकापीत्यर्थः ॥ ३२ ॥
,
नन्वीश्वरः प्रत्यक्षगोचरः इति को वा ब्रूते । यत्तावदुक्तं 'तत्स्थितिमानवलम्ब'
इत्यादिना तदयुक्तम् । तथाहि अनुमानादीनां व्याप्तिग्रहणादावेव प्रत्यक्षापेक्षा, न तु
साध्येऽपि । तथात्वे प्रत्यक्षेणैवाल किमनुमानेन । तस्मादनुमानेन ईश्वरसद्भावे प्रमा-
णेनैव भाव्यमित्यत्राह -
1
39