This page has not been fully proofread.

सव्याख्ये त्रिपुरदहने
 
दिभोगान् गानं गीतिः सुरास्वादो मधुपानं वधूश्लेषणं वधूनां नवोढयोषितां श्लेषण-
मालिङ्गनम् । उपलक्षणमेतत् सम्भोगस्य ।
 
७०
 
वधूः स्त्रीमात्रभार्ययोः ।
नवोढ्योषास्नुषयोर्भार्यायां पूर्वजस्य च ।
स्पृक्कानद्योश्च "
 
इति केशवः । आदिशब्दान्मृष्टाशनादिपरिग्रहः । गानादिभोगान् कामान्
प्राप्नुत सेवध्वम् । अयमेव स्वर्गानुभाव इति भावः। यथाहुः
स्वर्गानुभूतिर्मृष्टाष्टिद्वर्चष्टवर्षवधूरतिः
 
66
 
इति ॥ ३० ॥
 
यद्यपि वैदिकपक्षमाक्षिप्य पाषण्डपक्षः स्थापितः तथापि चिराभ्यस्तत्व द्रुढमूलायाः
शिवभक्तेर्वासना प्रयत्नमन्तरेण न निवर्तत इति तान् समूलमुन्मूलयितुमुपक्रमते -
 
मम पुनरपरा गावः श्रूयन्तां यदि न बुद्धिरपरागा वः ।
भजथ महेशं सततं कः प्रमितौ हेतुरस्य हे शंसत तम् ॥ ३१ ॥
 
ममेति । अत्र प्रकरणसहकृतः सम्बोधनद्योतको हेशब्दः असुरा इति द्योत्यं
संबोध्यविशेषमाक्षिपति । हे असुराः वः युष्माकं बुद्धि: अपरागा अपगतरागदोषा
यदिन तर्हि (पुनर्मम अपरा गाव: अपराणि बचनानि ) श्रूयन्तामित्यामन्त्रणे
लोट् । अहिते वस्तुनि रागाविष्टे मनसि शतकृत्वः कथितमपि हितवचनं वदनं
निदधातीति (?) भावः । काः पुनस्ता इत्यत्राह - भजथेति । यूयं सततं.
सर्वदा महेशं भजथ जपनमस्कारादिभिः सेवध्वे । युष्माभिर्व्यापारान्तरनिरपेक्ष महेश्वर-
सेवैव क्रियते इत्यर्थः । ममापि किञ्चित् प्रष्टव्यमस्ति । अस्य महेशस्य प्रभितौ
यथार्थज्ञाने सद्भावाबगतावित्यर्थः । (यो ? को) हेतुः युक्तिः प्रमाणमित्यर्थः । तं हेतुं शंसत ।
 
38