This page has not been fully proofread.

द्वितीय आश्वासः ।
 
स्यादिति । युष्मादृशैः देहव्यतिरिक्ततया कथ्यमानः प्रेतः मृतः पुरुषः
अन्यत्र स्वस्मादन्यस्मिन् पुरुषे इष्टमभिमतं ओदनतोयं पुत्रादिना दीयमान -
मोदनमन्नं तोयं पानीयं च अश्नति भुञ्जाने सति मोइनतः क्षुन्निवृत्त्या
प्रीतियुक्तः स्याद्यदि तर्हि इयं जनता जनसमूहः अथ साकल्येन सर्वापीत्यर्थः ।
अतः एतस्मादपादानभूतात् प्रदेशात् कुतः कस्माद्धेतोः पथि मार्गे पाथेयं पथि
साधु तण्डुलादिकं नयति । तत्र न कोऽपि हेतुः प्रयोजनाभावात् । क्षुन्निवृत्तिस्तु
गृहावस्थितपुत्रादिना क्रियमाणान्यजनभोजनेनैव सेत्स्यतीति भावः । कीदृशी जनता ?
सभारतापा भारेण पाथेयवहनेन हेतुना यस्तापः खेदः तेन सह वर्त्तमाना ।
प्रकारान्तरेणेष्टफलसिद्धावनिष्टफलदकर्म नानुष्ठेयमित्यर्थः ॥ २९ ॥
 
एवं वैदिकपक्षमा क्षिप्य पाषण्डपक्षस्यैवानुष्ठेय (त्व) मित्याह -
 
तद् बचने शस्पे मे तिष्ठत धर्मा हिताय नेशस्येमे ।
प्राप्त भो गानसुरास्वा वधूश्लेषणादिभोगानसुराः ॥ ३० ॥
 
तदिति । अत्र तदितिपदम्
 
66
 
एकेस्यैवोभयार्थत्वे तन्त्रमित्यभिधीयते ।
 
तच्च काकाक्षिवत् क्वापि भित्तिदीपसमं कचित् ॥
 
इति न्यायेनोमयत्र संबध्यते । (भो) हे असुराः यस्मात् श्रौतस्मातें
धर्माणामनुष्ठेयत्वं तत्
तस्मादीशस्य शिवस्य संबन्धिनः इमे वेदमूलपाशुपतादिशवागमसिद्धा धर्माः त्रिपुण्डू-
रुद्रांक्षधारणपञ्चाक्षरीजपहोमतर्पण लिङ्गार्चनादीनि कर्माणि हिताय श्रेयसे न । भवन्तीति
शेषः । यस्मादीशकर्मणामहितकरत्वं तत् तस्मात् यूयं मे वचने तिष्ठत हितबुद्धिं
कुरुध्वम् । कीदृशे । शस्ये स्तुत्थे । उपपत्तिमत्त्वाद
बाध्ये न तु वैदिकपक्षवत् बाध्ये
इत्यर्थः । तर्हि किं तद् वचनमित्याह प्राप्नुतेति । यूयं गानसुरास्वादवऋषणा-
-
 
37