This page has not been fully proofread.

सव्याख्ये त्रिपुरदहने
 
श्रुतिगम्यं वेदवाक्यवेद्यं, यत् कर्म दर्शपूर्णमासज्योतिष्टोमादिकं वदथ श्रेयस्साधनतया
कर्तव्यत्वेन 'समर्थयथ । अथ अर्थविचारानन्तरं यत् कर्म, तात्रत् साकल्येन यत्किञ्चिद-
प्यवयवैः (वें) कल्यमन्तरेणेत्यर्थः । क्रियते अनुष्ठीयते च एतत् कर्म, इह अस्मिन्,
लोके नाश अतिशयेन नाशयुक्तम् । अतिशायने मत्वर्थीयः । अनुष्ठानसमनन्तरमेव
निखिलैरप्यवयवैः सहात्यन्ताभावं प्राप्तमित्यर्थः । ध्रुवं निश्चितमेतत् । उभयवादि-
सम्मतत्वादितिं भावः । तस्माद् अस्य अत्यन्ताभावमापन्नस्य कर्मणः फलं स्वर्गादिकं,
परत्र परलोके, केन अश्येत भुज्येत । न केनापि । असतो ऽर्थक्रियाकारित्वाभावादिति
 
भावः ॥ २७ ॥
 
६८
 
"
 
अस्तु वा कर्मणः फल्दातृत्वं, तथापि अभिमतफललाभो (स?) न सेत्स्यतीत्याह -
 
फलमपि न भवेदिष्टं लभतेऽसौ यदि पुरातनभवे दिष्टम् ।
तर्हि समिद्धोमरतः समिधममुत्राश्नुते समिद्धोऽमरतः ॥ २८ ॥
 
फलभिति । इष्टं स्वाभिमतं, फलम् उर्वशीसम्भोगादिकं, न भवेदिति प्रति(ष्ठा?ज्ञा । )
(समा धर्मा )नुष्ठातुरिति शेषः । प्रतिज्ञासमर्थमुपपादयन्नाह - लभत इति । असौ धर्मानुष्ठाता
पुरुषः, पुरातनभवे पूर्वजन्मनि, दिष्टं दत्तं लभते प्रामोति, यदि तर्हि समिद्धोम-
रतः समिधां पलाशादिकाष्ठखण्डानां होमे रतः तत्परः पुरुषः, समिद्धः धर्मा-
नुष्ठानमाहात्म्यशालितया प्रज्वलितः अमुत्र परलोके, अमरतो देवेभ्यः समिध-
,
मश्नुते प्राप्नोति । नोर्वशीसम्भोगादिकम् ।
 
"दीयते देवताभ्यो यदिह तद् भुज्यते पुनः ।''
 
इति वचनाद्, दत्तस्थैवादानोपपत्तेश्चेति भावः ॥ २८ ॥
 
श्रौतवत् स्मार्त्तं कर्मापि नानुष्ठेयमित्याह -
 
स्याद्यदि मोदनतोऽयं प्रेतोऽन्यत्राश्नतीष्टमोदनतोयम् ।
पथि जनता पाथेयं नयति कुतोऽतः सभारतापाथेयम् ॥ २९ ॥
 
52