This page has not been fully proofread.

द्वितीय आश्वासः ।
 
श्राव्या मदवध्येयं वाग् बोधं वित्त मद्यमदवद् ध्येयम् ।
साधं तन्या तेन प्रणश्यते विघटनान्तु तन्त्राते न ॥ २६ ॥
 
श्राव्येति । अत्र 'संबोधनसारो युष्मदर्थः' इति न्यायाद् मध्यमपुरुषाक्षितो युष्मदर्थः
अनुरा इति पदमाक्षिपति । हे असुराः !, मद् मत्सकाशाद् इयं वाक् वक्ष्यमाणा वाकू भारती,
श्राव्या अवश्यं श्रोतुं योग्या । कीदृशी । अवध्या युक्तिमत्त्वात् केनाप्यबाध्या । अत्र
वक्तव्यार्थवचनव्यतिरेकेग वाचः श्राव्यत्व विधानाद् मया सिद्धान्तसार उपदिश्यते तत्
सावधानाः शृणुतेति व्यज्यते। बोधं देहगतं चैतन्यं मद्यमदद् मद्येन हेतुना यो
मदः मनोविकारः तेन तुल्यं तद्वदागन्तुकं, ध्येयं ध्यातुं योग्यं, बोद्धव्यं, वित्त जानीत ।
तस्य देहान्तरग्रहणं न संभवतीत्या सार्वमिति । तेन बोधेन तन्त्रा शरीरेण सार्ध सह,
प्रणश्यते अत्यन्ताभावः प्राप्यते । कारणाभावे कार्यमपि नश्यत्येवेति भावः ।
तनुबोधौ विघटनां विश्लेषम् इतरेतरस्माद् अन्यतरत्यागेऽन्यतरस्य गमनं, न तु नैव
तन्त्रात्रे कुर्बाते । कार्यकारणयोर्भेदाभावादिति भावः । एतदुक्तं भवति – चार्वाकमते
आकाशशप्रत्यक्षत्वेनासत्यात् पृथिव्यप्तेजो वायुधत्वार्येव भूतानि । भूतचतुष्टयारब्धो
देह एवात्मा । देहगतं चैतन्यं मदवदागन्तुकमेव । यथा मद्यसंयोगे मदो जायते
मद्यशक्तिवियोगे विलीयते च तथा चैतन्यनपि भूनचतुष्टयसंयोगे जायते तद्वियोगे
लीयते च । अतो देहव्यतिरेकेण देशान्तर कालान्तरभाविकर्म
फलभोगाय देहान्तरं
गृह्णन् कश्चित् पदार्थो नास्त्येव इति ॥ २६ ॥
 
"
 
अस्तु वा देहव्यतिरिक्त आत्मा; तस्य देहान्तरग्रहणमप्यस्तु । तथापि कर्मणां
फलदातृत्वानुपपत्तेः तस्य फलभोक्तृता न सम्बोभवीति इत्याह -
 
क्रियते यत्तावदथ श्रुतिगम्यं यच्च यत्ता वदथ ।
 
इह लोके नाश्येतद् ध्रुत्रगंस्य फलं परत्र केनाश्येत ॥ २७ ॥
 
क्रियत इति । अत्र मध्यमपुरुषा क्षिप्तयुष्मदर्थेबलाद् असुरा इति संबोधनं सिध्यति ।
हे असुराः ! यूयं यत्ताः सषडङ्ग चतुर्वेदाध्ययने तदर्थविचारे च महान्तं यत्नं प्राप्ताः भूत्वा
 
51