This page has not been fully proofread.

सव्याख्ये त्रिपुरदहने
 
पीत्यर्थ: । क्रियाणां जडत्वात् पाकादि क्रियाणामिव यागादि क्रियाणामपि फलदातृत्वा-
नुपपत्तेरिति भावः ॥ २४ ॥
 
ननु देहव्यतिरिक्त एवात्मा, सच एतद्देहपाते देहान्तरं गृहीत्वा देशान्तरकाला-
न्तरभावि. कर्मफलं भुङ्क्ते च । तस्माद्धर्माऽनुष्ठेय एव इत्यत्राह-
का पुनरङ्गात्र मितिः स्मरत यदि विशत्यसौ परं गात्रमिति ।
` यद्ययमक्षे पतति ध्रुवं मतं युष्मदीयमक्षेपतति ॥ २५ ॥
 
का पुनरिति । पुनश्शब्दो वाक्यालङ्कारे । अङ्ग इत्यामन्त्रणे । अत्र इतिशब्दार्थ-
महिम्ना मन्यध्त्रे इति पदमाक्षिप्यते । अङ्ग ! हे असुराः, असौ पुमान् परम् एतद्देहादन्यद्,
गात्रं त्रिशति कर्म कसाघनत्वेनाङ्गीकरोति इति मन्यध्वे यदि तर्हि अत्र परगात्र प्रवेशे, का
पुनर्मितिः प्रमाणञ् । न कापीत्यर्थः । स्मरत युक्तितो विचारयध्वम् । तदा युष्माकमप्येतद्धृदय-
ङ्गममेवेति भावः। चार्वाकमते प्रत्यक्षमेकमेव प्रमाणम् । अनुमानादीनि न प्रमाणानि । यथाहु:-
'प्रत्यक्षदृष्टमेवास्ति नास्त्यदृष्टभदृष्टतः ।
 
""
 
66
 
इति । तदाश्रयणेनात्र प्रमाणाभावं हृदयङ्गमीकृत्य धर्मस्यानुष्ठेय तामाक्षेप्नुमाह -
यदीति । अयं परगात्रमवेशलक्षणोऽर्थः, अक्षे प्रत्यक्षे, पतति विषयो भवति, यदि
तर्हि युष्मदीयं युप्नत्संबन्धि, मतं धर्मेस्यानुष्ठेयलक्षणो वः सिद्धान्तः, अक्षेपतति क्षेपः
खण्डनीयता तेषां ततिः समूहः तद्रहितं भवेद् ध्रुत्रं निश्चितमेतत् । अक्षेपमिति वक्तव्ये
अक्षेपततीत्युक्तं युष्मन्मतखण्डने अहमहमिकया शतशो युक्तयः प्रसरन्तीति द्योतयितुम् ।
अयमर्थः - यद्यात्मनः परगात्रप्रवेशस्य प्रत्यक्षविषयत्वं तर्हि युष्माकं पक्षः (स्वर्गा? सा) धिष्ठ:
अन्यथा खण्डित एव इति । आत्मनो देहान्तरग्रहणस्याप्रत्यक्षत्वे कस्यापि न विमतिः ।
तस्माद्धर्मो नानुष्ठेय इति भावः ॥ २५ ॥
 
9
 
ननु प्रत्यक्षविषयो देह एव नात्मा देहव्यतिरिक्तोऽप्रत्यक्षो बोधलक्षणः
कश्चित् पदार्थोऽस्त्येव । स एवात्मा । स च देहान्तरं गृह्णातीत्यत्राह -
 
50