This page has not been fully proofread.

सव्याख्ये त्रिपुरदहने
 
शक्तिरिति । अस्योत्तरश्लोकेन सम्बन्धः । यत्र त्रिपुरे, सादिगता सादिनोऽश्वारोहाः
तान् गता प्राप्ता, शक्तिः सामर्थ्यम्, अकम्प्रा अकम्पशीला स्थिरा भवति । अनभिभवनीये-
त्यर्थ: । प्रासादि च मनःप्रसादो नाभी च कदाचिदपि दुःखासम्पर्शात् सुखेनै
बावस्थितमित्यर्थः । य (द) इत्यनुषज्यते । यत्कटकं यस्मिन् कटकं सैन्यं, प्रासादि-
स्फीतं प्रासादिभिः कुन्तप्रमुखैः आयुधैः स्फीतम् । " सैन्येषु कटकोऽस्त्रियाम्" इति
यादवः । यत् पुरत्रयं, तुङ्गवेदिकं तुङ्गा उन्नता वेदिः बिनर्दिः यस्मिन् तत्तथा ।
 
६२
 
"वेदिवित यागाय परिष्कृतमहीतले ।
अग्निकुण्डे चतुष्कोणे त्वग्मि(द? कु)ण्डे परे जगुः ॥ "
 
इति केशवः । यच प्रासादि प्रासादो मन्दिरविशेषः ।
" प्रासादो मन्दिरान्तरे ।
 
नृपाढ्यदेवतादीनाम् "
 
इति केशवः ॥ १८ ॥
 
विप्रततावध्यायध्वंसि स्फीतं श्रिया गतावध्या यत् ।
हरिरहितावध्याय त्रिपुरायेर्ष्यन् हते ऋतायध्यायत् ॥ १९ ॥
 
9
 
विप्रतताविति । यच्च विमततौ अध्यायध्वंलि अध्यायो वेदपाठः तद्र्ध्वंसन-
शीलं, यच्च गतात्रध्या गतोऽवधिस्सीमा यस्यास्सा तथा । अपरिमितयेत्यर्थः । श्रिया
सम्पदा, स्फीतं, हरिः विष्णुः, ऋतौ क्रोः कार्यभूने प्रमथगणे, हो निगृहीते, तस्मै
उक्तगुण विशिष्टाय, त्रिपुराय ईन् क्रुध्यन् सन् अध्यायत् चिन्तयामास ।
" क्रुधद्रुह" (पा० सू० १ ४ ३७) इत्यादिना त्रिपुरस्य सम्पदानसंज्ञा । पुरत्र्यं
विशिनष्टि – अहितेति । अहितैः शत्रुभिस्खध्याय हन्तुमशक्याय । पुरत्रयस्याध्याय-
ध्वंसाद्यधर्माचारित्वे सति सादिस्थितशक्तेर कम्प्रता दिवशिष्ट्यं चाहितावध्यत्वं च ।
प्रयास विकली करणं चेया हेतुः ॥ १९ ॥
 
46