This page has not been fully proofread.

सव्याख्ये त्रिपुरदहने
 
तौ चेति । तौ लोकशास्त्रप्रसिद्धौ, गौरीशानौ पार्वतीपरमेश्वरौ, यत्र कैलासे
सदा सबिलासं विलासेन लीलया सह वर्त्तमानं यथा भवति तथा स्तः विद्येते च ।
तस्य महिमा कथं वर्ण्य इति भावः । कीदृशावित्यत्राह - अनवसानौ इति ।
देशतः कालतः स्वरूपतश्चाद्यन्तशून्यौ । नित्यशुद्धा वित्यर्थः । यत्रेत्युक्तं विशिनष्टि -
सत्येति । दितेरपत्यानि दैत्याः दनोरपत्यानि दानवाः । भगवत्सेवार्थमागतैः
दैत्यदानवै: सहितानि सानूनि प्रस्थानि यस्य स तथा । अरिसंयन्त्रस्तः अरीणां
संयतः युद्धात् त्रस्त भीतः, सुरगणो यं कैलासं, श्रयति शरणं प्रपद्यते तस्मै
शम्भुनिवासायेति पूर्वेणान्वयः ॥ १४ ॥
 
अथ हरिः कैलासं प्राप्य परमेश्वरप्रसाद नायोपक्रान्तवा नित्याह-
६०
 
तं स्थित मुपसद्यागस्त्राम्ये हरिणा कृतोऽयमुपसद्यागः ।
कैलासं भृतेशं प्रीणयता यत्र समुदि सम्भूते शम् ॥ १४ ॥
 
तमिति । हरिणा विष्णुना, तम् उक्तगुणविशिष्टं, कैलासमुपसद्य प्राप्य, अयं
पूर्वानीतः, उपसद्यागः, उपसत्संज्ञो यागः, कृतः अनुष्ठितः । कैलासं विशिनष्टि - अगस्वाम्ये
स्थितमिति। अगस्वाम्ये गौरीशानवासत्वादिगुणशालित्वात् पर्वताधिपत्ये, स्थितम् अव-
स्थितम्। एतत् ऋतोरन्यत्रानुष्ठेयत्वेऽपि तत्र गत्वानुष्ठाने हेतुः । कस्मै फलायायं क्रतुः कृतः
इत्यत्राह – भूतेशमिति । भूतानां श्रीमहाभूतगणानां निखिलजन्तूनां वा ईशं परमेश्वरं,
श्रीणयितुम् । परमेश्वर॑प्रसादलाभायेत्यर्थः । तस्य किं फलमित्यत्राह – यत्रेति । यत्र यस्मिन्
भूतेशे, समुदि संभृते सति शं परमप्रयोजनभूतं सुखं भवति । तत्तदभिमतफलसम्पत्त्या
सुखाबाप्तिरीश्वरप्रसादस्य फलमित्यर्थः ॥ १५ ॥
 
रागः फलवांश्चासीदित्याह-
-
 
-
 
मुक्त्वा हासं सद्यः प्रमथगणो मथित रिपुमहासंसद्यः ।
प्रययावच्छाद्यागादुदयं त्रिपुरञ्च जगदवच्छाद्यागात् ॥ १६ ॥
 
44