This page has not been fully proofread.

द्वितीय आश्वासः ।
 
स्याधेयत्याधारोत्कर्षावगमकत्वादिति भावः । शिरो विशिष्टि - विविधन्यङ्कुरुते इति ।
विविधानि हर्षक्रोधादिमूलत्वाद् बहुविधानि न्यकूनां मृगविशेषाणां रुतानि शब्दा
यस्मिन् तत्तथा । उपलक्षणमेतत् सत्त्वान्तरस्यापि । वस्तूनां स्वधर्मोपेतत्वं हि गुणः ।
मृग शकुन्याद्यनेक (स)त्त्वोपसेव्यत्वादिकं पर्वतधर्मः । तस्मादनेनापि पर्वतप्रशस्तिरेव कृता
इत्येवगन्तव्यम् । वैशब्दोऽवधारणे भिन्नक्रमश्च । रुप्यमयाद् वै रजतस्वरूपादेव,
यस्ता कैलासाद्धेतोः, अमरगिरिमरुः काञ्चनोऽपि काञ्चनविकारोऽपि, वैरूप्यं
विकृतरूपताम्, अयात् प्राप्तः । 'धातृनामस्मि काञ्चनम् " इति भगवद्वचनात्, तथा
लोकन सिद्धेश्ध काञ्चनम्यैवोत्कर्षः । तन्मयस्य मेरो रजतमयस्य कैलासस्य प्रभा-
प्रसराक्रान्तत्वात् वर्णापकर्पा जात इत्यर्थः । सर्वस्मादुत्कृष्टस्य काञ्चनस्य रजतापेक्षया
वर्णहानेरत्यन्तासम्भाव्यताम् अपिशब्दो द्योतयति ॥ १२ ॥
 
66
 
५९
 
चभ्रु करालं केशं विभ्राणं दशशिरः पुरा लङ्केशम् ।
भ्रमयत् पातालसदो रुराव रक्षो यदन्तपातालसदोः ॥ १३ ॥
 
बभिवति। पुरा किल रावणः भुजकण्डूविनोदनाय कैलासमुद्भृत्योत्क्षिप्य उत्क्षिप्य
व्यहरत् । तदा हरः कुपितस्सन् स्वाङ्गुष्ठाग्रेण पर्वते गौरवमाहितवान् । तद । स्वोपरिं निपततः
कैलासस्य गौरवमसहिष्णुः रावणः रोदनमकरोत् । तदेतदनेनोच्यते । पुरा लङ्केशं लङ्काया
ईशं स्वामीभूतं रावणाख्यं रक्षः राक्षसः, यदन्तपातालसदोः यस्य कैलासस्यान्तो मूलकोटे-
रेकदेशः, तस्य पातेन पतनेन हेतुना अलसा जडीभूता दोषः बाहवो यस्य तत्तथाविधं भूत्वा,
रुराव ' हा हतोऽह' मित्यादिशब्दमकरोत् । रक्षसो लोकोत्तरतां प्रकटयन् तद्विशिनष्टि-
बभिवति [बभ्रु पिङ्गलं, करालं भयङ्करं, केशं कचं, बिभ्राणं दधानं, पातालसदः
पाताले सीदन्तीति तथा तान् पातालवासिनः । भ्रमयत् ] ॥ १३ ॥
 
तौ च सदानवसानौ गौरीशानौ सदैत्यदानवसानौ ।
सविलासं यत्र स्तः श्रयति च सुरगणोऽरिसंयत्वरतः ॥ १४ ॥
 
43