This page has not been fully proofread.

सव्याख्ये त्रिपुरदहने
 
ऋतुरुपसन्नामा यः स्वयममुमादाय रुद्रसन्ना माय ।
 
शम्भुनिवासायागान्मुक्त्यान्यान् सपदि पीतवासा यागान् ॥१०॥
 
,
 
ऋतुरिति । सपदि तत्क्षणमेव, पीतवासाः विष्णुः, स्वयं यः क्रतुरुपसन्नामा
उपसदिति नाम आख्या यस्य, अमुम् अभीष्टफलसम्पादनेऽन्तरङ्गभूतम् आदाय परिगृह्य,
अन्यान् (यागान् ) ऋतून्, मुक्त्वा प्रस्थाप्य, शम्भुनिवासाय अगात् गतवान् । न तु
देवानेव प्रस्थापयामास । अनेन कार्यस्य गौरवातिशयः प्रत्याय्यते । किमर्थमगादित्यत्राह -
रुद्रसन्ना मायेति । रुद्रस्य सन्नामाय नमस्काराय । रुद्रयागायेति यावत् ॥ १० ॥
 
अथ चतुर्भि: लोकै: कैलास वर्णयति -
 
यत्र हि सद्योगरतिः स्मरतामहांसि यच्च सद्यो गिरति ।
यन्नाम हरहरति प्रणद्य मुनिसिद्धवृन्दमहरहरेति ॥ ११ ॥
 
यत्रेति । यत्र शम्भुनिंबासे, सद्योगिरतिर्हि सतां जीवब्रह्मैक्य साक्षात्करणादुत्कृष्टानां
योगिनां रतिः स्थितावासक्ति: । हिशब्द: शास्त्रीयां प्रसिद्धि द्योतयति । स्मरतां परमेश्वरा-
धिष्ठानत्वेन कैलासं ध्यायताम्, अंहांसि पापानि, सद्यः स्मरणसमय एव, गिरति निगीर्णानि
करोति । नाशयतीति यावत् । यं शम्भुनिवासं, मुनिसिद्धवृन्दं मुनीनां मध्ये ये सिद्धाः
विदिततत्त्वाः तेषां वृन्दं समूहः, हरहरेति नाम भगवतो नामधेयं, प्रणद्य उच्चार्य
अहरहः प्रतिदिनं, एति प्राप्नोति । अहरहः अत्यन्तसंयोगे द्वितीया । वीप्सायां
द्विवेचनम् ॥ ११ ॥
 
यं विविधन्यङ्कुरुते शिरसि वसन् धनद् एव धन्यं कुरुते ।
यस्माद्वै रूप्यमयादमरगिरिः काञ्चनोऽपि वैरूप्यमयात् ॥ १२ ॥
 
यमिति । एवकारो भिन्नक्रमः । पौनर्वच निकश्च । धनदः यक्षराजः, शिरसि
शिखरे, वसन् यमेव धन्यं उत्कर्षवन्तं कुरुते । वसन्निति हेतौ शता । विशिष्ट -
 
42