2024-01-01 06:20:07 by ambuda-bot
This page has not been fully proofread.
द्वितीय आश्वासः ।
यतः परमेश्वरस्य असुरप्रीतौ निरतत्वं, ततस्तस्माद्धेतोः वः युष्माकम्, अहिततोदे शत्रुवधे
विषये, स एव तन्निग्रहायापि (प्रार्थ्यः ।) प्रार्थनीय इत्यर्थः । कीदृशः । पिनाकपाणि:
पाणौ हस्ते पिनाकः पिनाकाख्यं धनुर्यस्य स तथा । स्वयमेव जगत्कण्टकोद्धरणाय
गृहीतशस्त्रः प्रवर्त्तमानस्सन् अस्मत्प्रार्थनासहकृतोऽसुखधं करिप्यत्येवेति भावः । तस्यापि
सामर्थ्याभावे कथं ते वध्याः स्युरित्यत्राह - तस्येति । हिशब्दोऽवधारणे । ते दैत्याः,
तस्य परमेश्वरस्य, तेजसा शक्त्या, वध्या हि हन्तुं शक्या एव । तत्र न सन्देह
इत्यर्थः। तदानीमस्माभिः किं कर्तव्यमित्यत्राह- असौ परमेश्वरः, यम् अगं पर्वतम्,
अध्यास्ते अधितिष्ठति, तम् अगं यामः अधुनैव कैलासाय यास्यामः । वर्तमानसामीप्ये
लट् । " गत्यर्थकर्मणि " (पा० सू० २-३-१२) इत्यादिना द्वितीया ॥
।
अथ हरिः परमेश्वरप्रसादोपलब्धये मतिमकरोदित्याह-
इत्थममेयज्ञानान्नाथः स्मृत्यै प्रचक्रमे यज्ञानाम् ।
परमनुरागमनन्ते तन्वति तरसैव चक्रुरागमनं ते ॥ ९ ॥
3
इत्थमिति । समनन्तरोक्तस्य श्लोकद्वयस्यानेन संबन्धः । अत्रार्थसामर्थ्यादुक्त्वेति
पदमाक्षिप्यते । नाथो जगत्वामी हरिः, इत्थमभेन प्रकारेण, उक्ता अमेयज्ञानाद् अमेये
निखिलैरपि दुविज्ञेये वस्तुनि यद् ज्ञानं तस्माद्धेतोः । यज्ञप्रियत्वात् परमेश्वरो यज्ञेनैव प्रसाद्य
इति जानन्नित्यर्थः । यज्ञानां ऋतूतां, स्मृत्यै प्रचक्रमे आरब्धवान् । यज्ञेन परमेश्वरं प्रीणयितुं
यज्ञान् सस्मारेत्यर्थः । स्मृतिः फलवती चासीदित्याह - परमिति । ते यज्ञाः, अनन्ते विष्णौ
परम् अतिशयि (नम्)... अनुरागं स्मृतिलक्षणं प्रमाणं, तन्त्रति कुर्वति सति, तरसव वेगेनैव,
आगमनं चक्रुः कृतवन्तः । भृत्यानां हि प्रभूणां स्वविषयं स्मरणमपि परोऽनुराग एव
इति स्मृतेरनुरागत्वम् । ननु क्रियात्मकत्वादचेतनानां यज्ञानां कथमागमनम् । उच्यते-
अधिदेवताविषयेयमुक्तिः न तु क्रियाविषया । अधिंदेवता च सर्वेषां पदार्थाना मस्त्येव ॥
अथ हरिः परमेश्वरप्रसादनाय कैलासं गतवानित्याह --
41