This page has not been fully proofread.

स॒व्या॑ख्ये त्रिपुरदहने
 
" शक्ष्यामो हन्तुं न स्वयमिन्द्रस्तैः प्रयाति मोहं तुन्नः । "
 
इति कण्ठोक्त्या त्यजतां च । एतच्चोपपन्नमित्यर्थान्तरेण समर्थयते - तदिति ।
तद् अर्थितम् अनुमेने॑न । अत्रान्यत्वं नञभिधत्ते । यथोक्तम्–
 
2
 
५६
 
" प्रतिषेधेऽप्यसत्तायामन्यत्वे सदृशेऽपि च ।
कुत्साल्पविरहार्थेषु विपक्षे चापि नञ् भवेत् ॥ "
 
इति । उमा पार्वती तस्या इनः स्वामी परमेश्वरः तस्मादन्येन । केन शक्यं,
न केनापि । यच्छिवव्यतिरिक्तानां सर्वेषामप्यशक्यं तत्र हरेरनुमत्यकरणमेव युक्त मित्यर्थः ।
सर्वाशक्यत्वसामान्येन विशे(ष ? षा) शक्यत्वसमर्थनादर्थान्तरन्यासोऽलङ्कारः ॥ ६ ॥
 
अथ हरिस्तत्प्रार्थनानुमत्य करणे हेतुमाह
 
निरतः परमो देवः सततं परमेश्वरो हि परमोदे वः ।
 
तस्मान्मनसा मयं कर्तुं भवतां सुरा मम न सामर्थ्यम् ॥ ७ ॥
 
-
 
निरत इति । हे सुराः देवाः! परमः उत्कृष्टः । सर्वेषामप्यस्माकम् उपरि वर्तमान
इत्यर्थः। परमेश्वरः रुद्रः, देवः वः युष्माकं, परमोदे परेषां शत्रूणां मोदे प्रीतौ विषये, सततं
सदा निरतः तत्परो, हि यस्मात् (तस्मात् ) ततो हेतोः भवतां युष्माकं, मनसाम् अर्थ्य
प्रार्थनीयम् असुरवधलक्षणं वस्तु, कर्तु मम न सामर्थ्य शक्तिरिति । मम सामर्थ्याभाव एव
युष्मत्प्रार्थनानङ्गीकारे हेतुरित्यर्थः । परमेश्वर इत्यत्राश्वकर्णादिवत् केवलैव रूढिराश्रयणीया,
न तु योगसहिता । तथा (सति) परम इति पुनर्विशेषणीयो न स्यात् ॥ ७ ॥
 
इत्थं स्वासामर्थ्यश्रवणाद् विषण्णान् देवानवलोक्य हरिस्तन्निग्रहायोपायमाह
 
प्रार्थ्यो हि ततो देवः पिनाकपाणिः स एवाहिततोदे वः ।
यमग मसावध्यास्ते तं यामस्तस्य तेजसा वध्यास्ते ॥ ८ ॥
 
प्रार्थ्य इति । अत्र युष्मत्संबोधनगर्भत्वात् सुरा इति सम्बोधनं सिद्ध्यति । हे सुराः!
 
40