2024-01-01 06:20:05 by ambuda-bot
This page has not been fully proofread.
सव्याख्ये त्रिपुरदहने
विकसितेति । विकसितनालीकान्तर्दलरुचिलोचन विकसितस्य विकचस्य
नालीकस्य यदन्तदलं गर्भस्थं पत्रं तस्य रुचिरिव रुचिश्शोभा ययोस्तथाविधे लोचने यस्य
तस्य संवोधनं तथा । हरे हरिरिति श्रीनामशालिन् ! घनालीकान्त घनानां मेघानामाली
समूहः तद्वत् कान्त, सान्द्रमेघश्यामल! श्रितजनतापावन श्रिताया: भक्ति पुरस्सरं ( प्राप्तायाः)
जनतायाः जनसमूहस्य पावन शुद्धिकर!, ते तुभ्यं, नमः नमस्क्रिया । अस्त्विति शेषः ।
तापावनते तापेन मनोदाहेन हेतुना अवनते प्रणते, अत्र एतस्मिन्नाका रदर्शनेनैवानुमेय-
दुरवस्थे अस्मिन्, जने। अस्मास्विति यावत् । दयां करुणां, कुरु। प्रार्थनायां लोट् ॥ २ ॥
५४
अहिता वरदैते ये पुरत्रयेऽस्मिन् वसन्ति वरदैतेये ।
शक्ष्यामो हन्तुं न स्वयमिन्द्रस्तः प्रथाति मोहं तुः ॥ ३ ॥
अहिता इति । हे वरद भक्ताभीष्टप्रद ! ये एते सर्वेषामपि भयजनकतया
सर्वदैव मानसप्रत्यक्षवद् बुद्धिस्थाः, अहिताः शत्रवः तारकाक्षादयः, अस्मिन् सर्वंदा
सर्वत्र सञ्चरणाद् अखिलैरप्यवलोक्यमाने, पुरत्रये वसन्ति निवासं कुर्वन्ति, तान्
हन्तुं निगृहीतुं, वयं न शक्ष्यामः समर्था न भविष्यामः । भूतवर्तमानयोरिव भविष्य-
कालेऽपि शक्त्यभावोऽनुमेय एव इत्यभिप्रायेण लप्रयोगः । पुरत्रयं विशिंपन्ति -
वरदैतेय इति । चरा बलवत्त्वेन उत्कृष्टा दैतेया यस्मिन् तत्तथा । एतद् हनने
शक्त्यभावे हेतुत्वेनोक्तम् । दण्डापूपिकया स्वशक्त्यमावस्योपपन्नतामाहुः – स्वयमिति ।
इन्द्रः त्रयाणामपि लोकानां परमेश्वरात्मा स्वामी, स्वयं तैः असुरैः तुन्नः व्यथितस्सन्, मोहं
इतिकर्तव्यतामौढ्यम्, प्रयाति प्राप्नोति । इन्द्रस्यासामर्थ्य तद्रक्ष्याणां नः कथं सामर्थ्यमिति
यावत् ॥ ३ ॥
तल्लोकेश ! शिवद ! नः स्फीतेऽत्र त्रिपुरवावके शशिवदन! ।
न यथानघ! नश्यामः स्मरेस्तथा त्वं जनार्दन ! घनश्याम ! ॥ ४ ॥
तदिति । लोकेश लोकानां भुवनानामीश स्वामिन् ! शिवद भक्तानां
मङ्गलप्रद ! शशिवदन शशीव मनोहरत्वाचन्द्र इव वदनं यस्य तस्य सम्बोधनं तथा ।
38