This page has not been fully proofread.

अथ द्वितीय आश्वासः ।
 
अथ उपक्षिप्तां विपदं प्रतिचिकीर्षूणां देवानां प्रवृत्तिमाह -
 
अथ हरिमापन्नत्त्राद्द्युसदः क्षीरो वसतिमापन् नत्वा ।
हृतसर्चस्वा दित्याः कुलजस्तैरविरुद्रवस्वादित्याः ॥ १ ॥
 
अथेति । अथ पराजयप्राप्त्यनन्तरं, ह्युमदो देवाः, आपन्नत्वात् कृच्छ्रप्राप्ता आपन्नाः
तेषां भावस्तत्त्वं तद्धेतोः, नत्वा प्रस्थानारम्भ एवेष्टफलसिद्धये नमस्कर्तव्यान् विषेश्वरादीन
प्रणम्य, हरिं विष्णुम्, आपन् । शरणान्तरमलभमानाः तं शरणं जम्मुरित्यर्थः । यद्वा
'पूर्वकालिक' इत्यस्य प्रायिकत्वाद् मुखं व्यादाय स्वपितीतिवद् नत्वा हरिमापन्निति प्रयोगः ।
ततो हरिं प्राप्य नेमुरित्यर्थो लभ्यते । कुत्रस्थं हरिमित्याह क्षीरोदवसतिमिति । क्षीरोदः
क्षीरसमुद्रः वसतिर्वासस्थानं यस्य स तथा ।
 

 
"वसतिस्तु गृहे रात्राववस्थाने जिनाश्रये । "
 
इति केशवः । के ते घुसद इत्यत्राह अविरुद्रवस्वादित्याः द्वावश्विनौ च
एकादशरुद्राश्च अष्टौ वसवश्च द्वादशादित्याश्च तथोक्ताः । घुसदो विशिनष्टि – हृतेति ।
(दिल्या:) दिति: असुरमाता तस्याः, कुलर्जः तैः प्रकृतैः तारकाक्षादिभिलिभिरसुरैः,
हृतसर्वस्वाः हृतमपहृतं सर्व सकलं स्वमात्मीयं वस्तु स्वर्गादिकं येषां ते तथा । दैतेयाना-
मादितेयानां च मातृसोदरतानिबन्धनं निसर्गवैरित्वं द्योतयितुं दित्याः कुलजैरित्युक्तम् ॥१॥
 
-
 
-
 
अथ पञ्चभिः श्लोकैः देवानां स्तुतिनमस्कारपूर्वकं असुरनिराकरणं प्रति स्वासामर्थ्य
कथयित्वा प्रार्थनां प्रार्थितस्य तत्प्रार्थनानङ्गीकारं चाह -
 
"
 
१. मे इति मुद्रितपाठः ।
 
विकसितनालीकान्त र्दलरुचिलोचन ! हरे ! घनालीकान्त ! ।
श्रितजनतापात्रन ! ते नमो दयां कुरु जनेऽत्र तापावनते ॥ २ ॥
 
37