This page has not been fully proofread.

सव्याख्ये त्रिपुरदहने
 
उदारामा उद्धृत आराम: उपवनं यस्याः सा तथा । उपलक्षणमेतत् सौधनदीतीरादेः
अनेन यथाभिलाषं विहरणानुकूल्यं पुर्या उक्तम् ॥ ७२ ॥
 
· अथोत्तरश्वासस्य वीजमुपक्षिपन् असुराणां चरितमुपसंहरति -
 
५२
 
घुसदामुदयानवतानवता नवता न बताश्नुत तन्महसा ।
स जनो विजहार सदारसदा रसदार सदा जयतूर्यमपि ॥ ७३ ॥
 
घुसदामिति । तन्महसा तेपामसुराणां महसा तेजसा हेतुना नवता, नूतनता
द्युमदां देवानाम्, उदयान् समृद्धी:, नाश्नुत न प्राप्तवती । उद्यानां नवत्वं नाम नष्टानां
पुनरुत्पत्तिः सा चारप्रभावाद्देवानां नामूदित्यर्थः । तेति विस्मये । न्यायवृत्तानामन्याय-
वृत्तभ्यो विपदुत्पत्तिराश्चर्थमित्यर्थः । तन्मही विशिनष्टि – अवतानवतेति । अवतानो
विस्तारः तद्युक्तेन। सर्वातिशायिनेत्यर्थः । स जनोऽसुरजनः सदारसदा: दाराणां दयितानां
स( दा दसा) सहन सहितः, सदा विजहार चिक्रीड । रसत् शब्दायमानं जयतूर्यम्,
अन्तरान्ारा देवादीनां जयात्तद्धांतकतूर्यन्, आर अपि प्राप्तश्च ॥ ७३ ॥
 
-
 
"
 
अथ ते दुःखासंस्पृष्टनेव सुखमनुबभूवुरित्याह-
पुस्त्रचे मुदं अधुनिवासापुरत्र ये ।
 
पराभवेन वर्जिताः प्रणामतत्परा भवे ॥ ७४ ॥
 
पुरत्रयेति । (ये) दैत्याः अत्रास्मिन् ब्रह्मणोऽनुग्रहलब्धे, पुरत्रये निवासं स्थितिम्, आपुः
प्राप्तवन्तः। ते पराभवेन पराजयेन, वर्जिताः त्यक्ताः सन्तो, मुदं दधुः धृतवन्तः। अत्र
पराभववर्जितत्वमेव विधेयम् अन्यत् सर्वमहेश्यमेव । कथमधर्मरतानामेवामेवं जातभित्याशङ्कायां
शिवभक्तिरव तत्र हेतुरिति वक्तुं तान् विशिनष्टि - प्रणामतत्परा भव इति । भवे शिवे
प्रणानतत्पराः प्रणामे नमस्कारे तत्पराः। शिवभक्ता इत्यर्थः । अत्यन्तं पापिष्ठानामपि
तेषामभ्युदये शिवभक्तिरेव हेतुरित्यर्थः ॥ ७४ ॥
 
इति श्री वैष्णत्रकुलालङ्कृतेः कविहृदयसार्वभौमस्य करुणाकरनाम्नो विद्वत्वरस्य
भागिनेयेन पङ्कजाक्षनाम्ना विरचितायां त्रिपुरदहनव्याख्यायां हृदयग्राहिण्यां
 
प्रथम आश्वासः ॥
 

 
acareva
 
36