This page has not been fully proofread.

अथ
 
प्रथम आश्वासः ।
 
66
 
" इष्ट हि विदुषां लोके समासव्यासधारणम्। "
 

 
इत्युक्तनीत्या संक्षेपतः संभोगं वर्णयितुमुपक्रमते । असुरा रेमिरे इत्युक्तम् । तत्रैषां
रतेरुद्दीपनं किम । सीदित्याशङ्कायामाह-
उडुघटयामा सद्यो रजनिक्रुदुदरं विराजयामास द्योः ।
 
सुनृषु सुरामास्वाद्यः स्फुरितः स जनस्तदा सुरामास्वाद्य ॥ ७१ ॥
उडघटयेति । रजनिकृत् चन्द्रः सद्यः तत्क्षणं, उडुघटया नक्षत्रसमूहेन, अमा
सह, द्यो: आकाशस्य, उदरमन्तर्भार्ग, विराजयामास निजकरनिकरैः प्रकाशयामास ।
सुनृषु शोभनेषु नृषु पुरुषेषु, सुरामासु शोभनासु स्त्रीपु, च मध्ये आद्यः प्रधानभूतः, स
जनः असुरजनः स्त्रीजनश्च, यस्मिन् काले चन्द्र उदितवान् तदा तस्मिन् काले, मुरां मधम्,
आस्वाद्य पीत्वा, स्फुरितः चलितः । विकृति प्राप्त इति यावत् ॥ ७१ ॥
 
असुराः स्त्रीभिस्सह रेमिरे इत्युक्तम् । ते कीदृशाः स्त्रियोऽपि कीदृश्य: इत्याशङ्कायामाह-
ते शय्यासु समाल्या मदमदन निरस्तलज्जयासुसमाल्या ।
हितिदारामापूरराज : सुखिभिरियमुदारामा पूः ॥ ७२ ॥
 
त इति । ते चन्द्रोदयमथुपानाभ्याम् उद्दीपितरतत्रोऽसुराः, शय्यासु तल्पेषु,
समाल्याः सन्तः माल्यैः स्रग्भिः तदुपलक्षितैः कस्तूरी कर्पूरादिपरिमलद्रव्यैश्च सहिताः ।
सम्पादितसम्भोगसामग्रीका इत्यर्थः । मदमदननिरस्तलज्जया मद: मद्यपानजनितो
विकारः मदमदनाभ्यां निरस्त निर्वासिता लज्जा यम्यास्तया, असुनमाल्या असुसमानां
दयितानामाल्या समूहेन सह, उदारां महतीं सम्भोगलक्षणां, विहति क्रीडां आपुः
प्राप्तवन्तः । अत्र समाल्यतया संभोगस्या विकलता निरस्तलज्जतया निर्यन्त्र गप्रवृत्तिश्च
प्रत्याय्यते। ननु पूर्वं 'स्त्रीभिरमी रेमिरे' इत्यनेन यदुक्तं तदेवेदानीमपि 'उदारां विहृतिमापुः'-
इत्यनेनाप्युक्तम्, अतोऽत्र पौनरुक्त्यम् । उच्यते - अत्र समाल्यत्वं निरम्तलज्जत्वं च विधेयम् ।
असुसमाल्या उदारां विहृतिमापुरित्युद्देश्यमेव । अतो न पौनरवत्यम्। इयम् असुरसम्बन्धिनी,
पू: पुरी, सुखिभिः सुरतसुखयुतैः, तैरसुरैर्हेतुभिः रराज शोभते स्म । कीदृशी ।
 
35