This page has not been fully proofread.

सव्याख्ये त्रिपुरदहने
 
-
 
इतीति । अखिल ऋतुः वसन्तादिः, आनुपूर्व्या वसन्तादिक्रमेण, तं जनम्
असुरजनम्, इति उक्तप्रकारेण, अरम् अत्यर्थं, आप प्राप्तवान् । जनं विशिनष्टि -
कृतेति । कृतः पूर्यापारः पुरां पुरीणां व्यापारः सकललोक (गमन) लक्षणा प्रवृत्तिर्येन
स तथा तम् । अनेन कृतकृत्यतया दैत्यानां कामाधिकारित्वमुक्तम् । अमुना
जनेन, स ऋतुलक्षणः कालः, वनं प्राप्य विहृत्य, क्रीडित्वा अलालि सम्मानितः ।
कीदृशं वनम् – अधिकालोलालि अधिकमत्यर्थ गालोला: कुसुमात् कुसुमान्तर जगमिषया
चञ्चला: अलयो भृङ्गा यस्मिन् । अनेन वनस्य रामणीयकत्वमुक्तम् ॥ ६८ ॥
 
५०
 
अथ जलक्रीडामाह -
 
स्त्रीघटयामा सरसीरेत्य जनोऽयं विलोलयामास रसी ।
सलिलं सारवहंस श्रेणीसहिताम्बुजप्रसारवहम् ॥ ६९ ॥
 
स्त्रीघटयेति । सः प्रकृतः अयं कृतवननिहारो, जनः स्त्रीघटया अमा स्त्रीणां
समूहेन सह, सरसी: वापी:, एत्य अवगाह्य, सलिलं जलं, विलोलयामास विहरणात्
कम्पयामास । जनं विशिनष्टि - रमीति । रसी रागवान् । क्रीडायामिति शेषः ।
सलिलं विशिनष्टि - सारवेति । वहतीति वह पचाद्यच् । बिसास्वाद सजातमदतया
आरवेन शब्देन सह वर्तमानया हंसानां श्रेण्या समूहेन सहितानामम्बुजानां प्रसारः
प्रसरणं समृद्धिरिति यावत् । तस्य वह्माधारत्वेन स्थितमित्यर्थः॥ ६९ ॥
 
अथासुराः कामातम्सन्तः संभोगे प्रावर्तन्तेत्याह-
यो भुवने सौमनसः ख्यातः सफलोऽपि भेदनेऽसौ मनसः ।
झषकेतोरजनीषुः स्त्रोभिरमी रेमिरे ततो रजनीषु ॥ ७० ॥
 
य इति। सुमनस एव गौ मनसः । प्रज्ञादित्वादण् स्वार्थिकः । झषकेतोः, कामस्य,
य इषुः शरः, भुवने सौमनसः ख्यातः पुष्पमयत्वेन प्रसिद्धः, असौ इषुः, मनसः चित्तस्य,
भेदने शकलीकरणे, सफलः सप्रयोजनोऽजनि जातवान् । शराणां हि लक्षभेदः प्रयोजनम्।
कामशराणां मनोल्क्षत्वात् तद्भेदेन फलवत्त्वमा सीदित्यर्थः । असुराणां मनः कामशरविद्ध-
मभूदित्युक्तं भवति । यतो मनसः कामशरविद्धत्वं ततस्तस्माद्धेतोः, अमी दैत्याः, रजनीषु
निशासु, स्त्रीभिः दयिताभिः सह रेमिरे सम्भोगसुखमनुबभूवुः ॥ ७० ॥
 
34