This page has not been fully proofread.

प्रथम आश्वासः ।
 
स्त्री चतुरा गवि कासौ सभवृत या सहसि मदनरागविकासौ ।
विकसितफलिनीजाता वीक्ष्य दिशो दृग् जनस्य फलिनी जाता ॥ ६६ ॥
 
,
 
स्त्रीति । सहसि हेमन्तावयवे मासि । हेमन्तर्ताविति यावत् । गवि भूमौ या स्त्री
योषित्, चतुरा इङ्गिताकारगोपने निपुणा सती, मदनरागत्रिकासौ रागो विषय भिलाष:
तदधिष्ठात्री देवता मदनः विकासो विकार: मदनस्य विकारः पुष्पेष्वमिनिवेशः तौ
समवृत निगूढवती, असौ का, न कापि । सर्वापि मदनराग विकासगोपनेऽचतुरासीदित्यर्थः ।
जनस्य दृग् दृष्टि:, विकसितफलिनीजाता विकसितानि विकचानि फलिनीजात नि
श्याम कुसुमवृन्दानि यासु ताः, दियो हरितो, वीक्ष्य फलिनी दर्शनीयवस्तुदर्शनात
फलवती, जाता जज्ञे। "प्रियङ्गुः फलिनी श्याम " इत्यमरः ॥ ६६ ॥
 
के न्वेनेऽवश्याये भर्तुदरा विजृम्भितेऽवश्या ये ।
 
नाकृत का कुन्दलता कुसुमेनेन्दोः कलासु काकुंदलता ॥ ६७ ॥
 
८८
 
४९
 
केन्विति । अवश्याये हिमे, विसति ये दाराः जायाः, भर्तुः कमितुः
अर्थादपराधिनः, । वश्या वयङ्गता न भवन्ति एते के नु, न केचित् । शिशिरकाल वैशिष्टयात्
सर्वेऽपि दारा वश्या इत्यर्थः। शिशिरेऽपि हेमन्तवद् हिमप्राचुर्य भवत्येव । तथा च वर्णयन्ति-
अवनितले शीतरुजः कर्तापि भृशं तुपारलेशी तरुजः ।
पवमानस्तापस्यः स्थापयिताभूद्वियोगिनस्तापस्य ॥ "
 
इति । का कतमा, कुन्दलता कुन्दाख्यो लताविशेष: दलता विकसता कुसुमेन
हेतुना, धावल्यादिन्दो: कलासु काकुं ध्वनिविकारम् । न्यकृतिमिति यावत् । नाकृत न
कृतवती । सर्वापि कुन्द्रलता कुसुमधावल्याड् इन्दुसादृश्यं धृतवतीत्यर्थः ॥ ६७ ॥
 
अथ ऋतुवर्णनमुपसंहरन् वनक्रीडामाह -
 
इति कृतपूर्व्यापारं जनमृतुरखिलस्तमानुपूर्व्यापारम् ।
वनमधिकालोलालि प्राप्य विहृत्यामुना स कालोऽलालि ॥ ६८ ॥
 
33
 
"