This page has not been fully proofread.

सव्याख्ये त्रिपुरदहने
 
इति केशवः । कीदृशः । अंशुचितः रश्मिभिर्व्याप्तः । सम्पूर्ण भण्डल इत्यर्थः । पूर्णस्यै-
वेन्दोहिं सकलांशुत्र्याप्तिः संभवति । जगद्विशिनष्टि - रविकरेति । शुचित इति
सप्तम्यन्तात्तसिः । शुचि: ग्रीष्मावयवो मासः तस्मिन् । रविकरविधुरं रविकरैरादित्य-
रश्मिभिर्हेतुभिर्विधुरं क्लिष्टम् । घर्मार्तमित्यर्थः ।
 
४८
 
66
 
विज्ञेयं विधुरं स: क्लिष्टविक्लिष्टयोरपि ।
विकले प्रत्यवेते च " ।
 
इति केशवः ॥ ६४ ॥
 
विरहिभिराशा बभ्रे न जीवने नदति साम्बुराशाय ।
शशिनाकाशे नवभे गर्केर भूतले च काशेन बभे ॥ ६५ ॥
 
विरहिभिरिति । पुरानी अम्बुराशिर्जलमहः तत्सहिते। वृष्ट्यर्थमुपात्तजले
 
"
 
इत्यर्थः । अभ्रे मेघे, नदतिशयमाने सति धिरहिभिः । विरहिणश्च विरहिण्यश्च
विरहिणः।' पुमान् स्त्रिया ' (पा० सू० १-२-६७) इत्येकशेपः । तैः । जीवन प्राणधारणे,
आशा इच्छा, न बभ्रे न भृता । मेघध्वनेः कामोद्दीपनतया सोढुमशक्यत्वादिति भावः ।
विरहिणां प्रावृषि जीविताशा नासीदित्यर्थः । आकाशे नमसि, शशिना चन्द्रेण, भृतले
काशेन च इक्षुगन्धाख्यतृणविशेषेण च, बभे दीप्तम् । शरदि (प्रेम: मेवा) वरणाभावात्
शशिनश्च, कुसुमाविर्भावात् काशस्य च दीप्तिरासीदित्यर्थः ।
 
" काशस्त्विक्षुगन्धाख्यवीरुधि ।
 
अस्त्री स्त्रीपुंसयोः काशा दीप्तौ काशीति सा स्त्रियाम् । "
वाराणस्याम् "
 
इति केशवः ।
 
आकाशं विशिनष्टि - नवभ इति । नवानि नूतनानि (भानि) नक्षत्राणि
यस्मिस्तत्तथा । नक्षत्रैश्च बभे इत्यर्थः । क्षेत्राणां नवकं हि प्रावृषि तं विशिनष्टि ? - सकेरव
इति । कैरवाणि कुमुदानि तैस्सहिते । कैरवैश्च बभे इत्यर्थः ।
 
32