2024-01-01 06:20:04 by ambuda-bot
This page has not been fully proofread.
प्रथम आश्वासः ।
पुनर्वाभ्यां पूर्वोतरार्धेसन्तायाः चत्वारः । ततो द्वाभ्यामेकैकेन हेमन्तः शिशिरध
वर्ण्यते
स्वगुणमपारं पर्याकर्षन्ती दत्तगुच्छपारम्पर्या ।
तं जनमाप शुभर्तुश्रेणी किङ्करमनुत्तमा पशुभर्तुः ॥ ६३ ॥
स्वगुण इति । तं त्रिजगज्जेतारं, जनम् असुरसमूहं, ऋतुश्रेणी ऋतूनां
चसन्तादीनां कालवयव विशेषाणां श्रेणी पङ्क्तिः, आप प्राप्तवती । सेवितुमिति शेपः ।
जनं विशिनष्टि – पशुभर्तुः। पशुवत् कर्मपाशबद्धा जीवात्मानः पशवः तेषां भर्ता नियामकः
परात्मापरपर्यायः परमशिवः पशुभर्ता तस्य । किङ्करं दासम् । शिवभक्ताप्तिर्हि
सर्वैरप्य भिलपणीया । तस्मादृतूनां तत्याप्तिरुचितैवेति भावः । ऋतुश्रेणीं विशिनष्टि –
अपारम् अनवधिकम् । स्त्रगुणम् जातावेकवचनम् । स्वगुणानित्यर्थः । दोषप्रति-
योग्युत्कर्षावहः पदार्थो गुणः । स्वम् आत्मीयं गुणं कुसुमकिसलयादिशालित्वादिकं,
विवृणोति - दत्तंति परम्परैव
पर्याकर्षन्ती परितः प्रसारयन्तीत्यर्थः । गुणान्
पारम्पर्यम् । 'चातुर्वर्ण्यादीनां स्वार्थे उपसख्यानम्
66
(पा० सू० वा० ५-१-१२४ )
इति प्यञ् । दत्तं वितीर्णन् । आविष्कृतमिति यावत् । गुच्छानां स्तबकानां पारम्पर्य समूहो
यया सा तथा । उपलक्षणमेतत् फलकिसलयादे: । अत एव शुभा मनोहारिणीत्यर्थः ।
अत एव अनुत्तमा न विद्यते उत्तमा यस्याः सा तथा ॥ ६३ ॥
लक्ष्मीर्वानं तेने सरसिरुहां मण्डले च वासन्तेने ।
रविकरविधुरं शुचितः स्वकरैर्जनभरमयच्च विधुरंशुचितः ॥ ६४ ॥
""
लक्ष्मीरिति । लक्ष्मी: शोभा । "लक्ष्मी: श्रीभूतिशोभासु" इति केशवः ।
सरसिरुहां पद्मानां, मण्डले समूहे, वासन्तेने वसन्तकालोदिते इने सूर्ये च, वासं स्थिति-
क्रियां तेने । चकारात् प्राप्ते वसन्ते हि प्रतिघाताभावात् पद्मानि सजातानि सूर्यः प्रकृष्ट-
प्रकाशश्चासीदित्यर्थः । विधुश्चन्द्रः, 'जनं लोकं, स्वकरैः निजरश्मिभिः, अरमयच्च सुख-
यामास च ।
66
विधुः पुंसि विष्णौ चन्द्रे हुताशने ।
वायौ काले राक्षसे तु द्वे त्रि तु स्यादुपद्रुते ॥
जगदिति व्याख्यानुसारी पाठ: स्यात् .
31