This page has not been fully proofread.

सव्याख्ये त्रिपुरदहने
 
,
 
,
 
असुरैरिति । उद्धृतरागस्थितैः उद्धते उच्छृङ्खले । अनियन्तव्य इति यावत् ।
रा विषयाभिलाषे, स्थितैरवस्थितैः अपि तदा विरुद्धतरागः विरुद्धतरं शौचं
प्रत्यत्यन्तविरुद्धं यदागो यज्ञमङ्गादिलक्षणं पापं तद् वितन्वद्भिः कुर्बाणैः अप्यसुरैः
सततमेव सदैव, शौचे उत्कर्षहेतौ शुद्धतायां तस्थे अवस्थितम् । तत्र हेतुमाह - धृत-
परशाविति । घृतपरशौ धृतः परशुः कुठारो येन स तथा। परशुर्मुगादेरुपलक्षणम् ।
" बिश्रदोर्भिः कुठारम्" इत्यायुक्तलक्षणमित्यर्थः । जगत्प्रभौ परमेश्वरे, चेतःस्थे सतत-
चिन्तनेन हृदयस्थिते सति । तेषामत्यन्ताशुचिताहेतौ पापकर्मपरत्वे विपयकपरत्वे चापि
भगवद्ध्यानं शुद्धिहेतुरासीदित्यर्थः ॥ ६१ ॥
 
४६
 
जित्वा देवप्रभृतिद्विषतो मेरौ दुरासदे वप्रभृति ।
यदवापुरहरहस्ते धनं तदम्विलं न्यधुश्च पुरहरहस्ते ॥ ६२ ॥
 
जित्वेति । ते दैत्याः, वप्रभृति सानुयुक्ते, अत एव दूरामदे दुष्प्रापे, मेरौ । तन्मूर्धम्थे
स्वर्गे इति यावत् । देवप्रभृतिद्विषतः प्रभृतिशब्देनोपदेवाः सिद्धविद्याधरा गृह्यन्ते तान्
जित्वा । अहरहः । 'कालाध्वनो: (पा० सू० २-३- ५ ) इत्यादिना द्वितीया । 'नित्य-
वीप्सयोः' (पा० सू० ८-१-४) इति द्विवचनम् । प्रतिदिनम् । यद्धनमवापुः प्राप्तवन्तः,
तदखिलं, पुरहरहस्ते शिवस्य हस्ते, न्यधुः निहितवन्तः । हस्ते इति लोकोक्त्य-
नुसारेणोक्तिः ।
 
'मासानन्यान् गमय चतुरो लोचने मीलयित्वा " ।
 
. इतिवत् । परमेश्वरो नः प्रीयंतामिति सर्वस्वं भगवते समर्पयामासुरित्यर्थः ।
 
66
 
* वप्रवाक् पुनः ।
 
अस्त्री क्षेत्रे वास्तुभूमौ प्राकारे सानुरोधसोः ॥ "
 
इति केशवः ॥ ६२ ॥
 
अथ ऋतुवर्णनादे: काव्यलक्षणत्वात् तस्येदानीमवसर इति तद्वर्णनमारभते ।
तत्रादौ पञ्चभिः श्लोकैः ऋतून् वर्णयति । तत्राद्येन ऋतूनां सामान्येनाविर्भावः कथ्यते ।
 
30