This page has not been fully proofread.

व्याख्ये
 
ऽसुरभयात्त्यज्यमानः समाधिः ऐकाव्यं येन तत्तथा । दिव्या सेना भङ्गमापदित्युक्तम्,
ततः सा किमकरोदित्यत्राह – प्रोज्येति । स्वर्गसदो देवाः, चारुचमृणु चापु शौर्यादि-
गुणयोगात् सौन्दर्यशालिनीषु, चमूपु, हतासु दैत्यैर्निगृहीतासु सतीपु. शुचा नाहनन-
जनितदुःखेन हेतुना रुचं मुखकान्तिं प्रोज्य त्यक्त्वा गवि स्वर्गे वस्तुमशक्यत्वात्
भूमौ, ऊषुः वासं कृतवन्तः ॥ ५८ ॥
 
"शको
 
नानाककुभोऽगाद् " इत्युक्तम् । ततः कीदृगस्थावस्थानमित्यत्राह --
 
हरिरपि नानाहारस्फुरितः प्राग्भूषण विनानाहारः ।
प्रविवेश ऋत्वन्ते शोकसमुद्रं धुश्च शऋत्वं ते ॥ ५९ ॥
 
४४
 
हरिरिति । हरिरपि इन्द्रश्च, क्रत्वन्ते ऋतूनां यज्ञानामन्ते नाशे सति, शोकसमुद्रं समुद्र
इवादृष्टपारत्वात् अम्बुधिरिव यः शोकः दुःखं तं, प्रविवेश प्रविष्टवान् । कीदृशः । प्राक्
ऋतुनाशात् पूर्वं नानाहारस्फुरितः नानाविधैश्चरुपुरोडाशादिभेदाद् बहुविषैराहारैः
हविर्भागलक्षणैरन्नैः स्फुरितः उपचि(ता?तका) यत्वात् प्राप्तशोभः । अत एव नानाविधैः हार्मुक्ता-
दामै: म्फुरितः इति चार्थद्वयमावृत्तिमाश्रित्याभिधातव्यम् । हारी भूषणान्तरस्याप्युपलक्षणम् ।
भुक्ताः कामेन बाध्य. ते " इति ग्वायाद् देहसंस्कारादावाम्थायुक्त इत्यर्थः ।
 
66
 
"हरिन विष्णुसूर्येन्द्र चन्द्राग्नियमवायुषु ।
 
.
 
अशौ शॠहये मुझे रुक्मे रुक्माभवर्णके ॥
श्वेते वररुचिर्वणं म्रुते तु जयमङ्गलः ।
हरिद्वर्णेऽपि कपिले त्रिपु त्वेष गुणैयुते ॥
एतैश्चतुमि त्वेष मर्त्यजात्यन्तरे भवेत् ॥
शूद्रा निषादजे सिंहकपिभेकशुकादिषु ।
अश्चेऽश्वभेदे हरितपीतवर्ण"
 
इति केशवः । अत्र प्रागित्युक्तिरेव पश्चादिति पदमा क्षिपति । पश्चात् ऋतुनाशात्
परन्तु अनाहारो यज्ञाभावादू भोजनरहितः, अत एव भूषणैरलङ्कारैर्विना विनाभूतः ।