This page has not been fully proofread.

प्रथम आश्वासः ।
 
४३
 
निर्वेदं विषयवैराग्यं, एत्य नानाककुभः नानाविवाः ककुम: दिशः, अगान् गतवान् ।
एकस्यां दिशि स्थितेनेंयत्ये दैत्यास्तावदा गत्य पीडयिष्यन्तीति मत्वा शकस्य नियमेन
दिक्षु स्थितवानिति द्योतयितुं नानार्थेन ककुभो विशेषिताः ॥ ५६ ॥
 
जगदीश्वरा विष्ण्वादयोऽपि परिभूता इत्याह
 
-
 
असुररुचक्रोऽधवक्रे तक गणि रुचक्रोधः ।
द्रुतवानवान गुणोऽप्यतः के हि तव न त्रामनगुः ॥ ५७ ॥
 
असुरैरिति । तैः प्रकृतैः असुरैः
 
चक्रपाणिर्विष्णुः अधश्चक्रे
 
,
 
"
 
अधोऽधस्तान्नीचैः कृतः । परिभूत इति यावत् । कीदृशः । उच्चक्रोधः उच्चः
उच्चैर्मृतोऽतिशयितः क्रोधो यस्य स तथा । अत एव उच्चक्रः अरिशिरश्छेदार्थ-
मुद्धृतं चक्रं सुदर्शनं येन स तथा । अत्र एतस्मिन् युद्धे, असमगुः असमा
विषम।स्त्रिसङ्ख्यात्वादयुग्मा गावी नेत्राणि यस्य गणम्य स तथा । गणोऽपि एकादश-
रुद्राणां वर्गाऽपि, द्रुतत्रान् भीत्या पलायते स्म । महेश्वरांशत्वाद्रुद्वगणान् प्रति पराजयस्यात्यन्ता-
संभाव्यतामपिशब्दो द्योतयति । ( के हि तत्र न त्रामसगुः) इति । सर्वेऽपि त्रासं गतवन्तः ।
हिशब्द इतिहासप्रसिद्धिं द्योतयति । ननु परमेश्वर एव एकादशरुद्ररूपेण वर्त्तते । तस्यात्र
पराजयकथन मध्यनुचितमेव इतिवृत्तनायकत्वात् । उच्यते - अंशिनः परमेश्वरस्य पराजयकथन
एवानौचित्यम् । एकादशरुद्रा हि परमेश्वरांशा एव । तेषां पराजयकथने नानौचित्यम् ।
अन्यथेन्द्रादीनामपि पराजयो न वर्गनीय: स्वात् । तेषामपि परमेश्वरांशत्वात् ॥ ५७ ॥
 
अथ न केवलमसुरैः कर्मिण एव, योगिनोऽपि वाध्यन्ते स्मेत्याह-
L
 
अभजत मानसमाधिः स्थिरमपि यमिनां विहीयमानसमाधि ।
 
प्रोज्झ्य शुचा रुचमूषुः स्वर्गसझे गवि हतासु चारुचमूषु ॥५८॥
 
अभजतेति । आधिर्मन:पीडा, स्थिरमपि विषयेभ्यः प्रत्याहरणान्निश्चलमपि, यमिनां
योगिनां, मानसं चित्तम्, अभजत श्रितवान् । तत्र हेतुः - विहीयमानसमाधीति । विहीयमानो-