This page has not been fully proofread.

४२
 
सव्याख्ये त्रिपुरदहने
 
निष्कः तद्भेदान् । मांसानि रक्तवर्णसाम्यात् पिशितानीति मत्वा अकबलयन् दटवन्तः ।
 
"निष्कोऽस्त्री हेम्नि दीनारे साष्टकर्षशते पंले ।
अजयश्शाश्वतश्चैनं हेन्न एव पलेऽपठीत् ॥
 
""
 
वक्षोभूषान्तरे कर्षे सज्जनस्तु रहस्यपि ।
 
इति केशवः
 
। कनकवलयादौ रक्ततासाभ्यात्
अलङ्कारः । उक्तं च काव्यप्रकाशकृता
 
मांसमविदुत्पत्तरत्र आन्तिमान-
त्रान्तिमानन्थसं वित्तत्तुल्यदर्शने "
 
( १० - ४६) इति । शुनामेति (?) समर्थयितुम् अर्थान्तरं न्यभ्यति स्फुटमिति ।
तिरवां तिर्यग्योनिजातानां, मनांसि अमीमांसानि मीमांसा विचार सहितानि । स्फुटं
निश्चिनम् एतत्। मीमांसेति "मान्यधदानशानभ्यो दीर्घश्चाभ्यासम्ब'' (पा० सू० ३-१-६)
इति "मानेजिज्ञासायाम्" (वा० ३ - १ - ६) इति वचनात् जिज्ञासायां सन्प्रत्ययः ।
" घातो" रित्यधिकृत्य विधानाभावेन आर्धधातुकसंज्ञाभावाद बलादित्वेऽपीडभावः ।
'अ प्रत्ययाद् ' (पा० ० ३-३-१०२) इत्यासत्ययः ।
 
66
 
"अथ मीमांसा वेदवाक्यार्थचिन्तक ।
 
शास्त्रे विचारणायां च
 
इति केशवः ॥ ५५ ॥
 
युद्धे देवाः पराजिता आसन्नित्याह
 
-
 
1
 
66
 
-
 
तत्र च सा दिव्यापत्सेना भङ्गं सनागमा दिव्यापत् ।
 
अपि नानाककुभोऽगाच्छको निर्व: मेत्य नाककुभोगात ॥ ५६ ॥
 
चमूः,
 
तत्रेति । तत्र युद्धे, मा युध्यमाना, दिव्या दिवि भवा, सेना
भङ्गं च पराजयं चकारात् पलायनं च, आपत् प्राप्तवती । कीदृशी । सनागसादि-
व्यापद् नागा गजा:, सादिनोऽश्वारोहाः । उपलक्षणमेतत् स्थानां पत्तीनां च ।
तेषां व्यापदा चरणाद्यङ्गभङ्गमरणादिलक्षणया विपदा सह वर्त्तमाना । न केवलं सेनैव, शक्रः
स्वयमपि पराजित इत्याह – अपीति । शक्रोऽपि इन्द्रः स्वयमपि, नाककुभोगात्
नाकस्य स्वर्गस्य कुत्सिताद् असुरैः पीड्यमानत्वेन गहिंताद् भोगाद् अनुभवाद्धेतोः ।