2024-01-01 06:20:02 by ambuda-bot
This page has not been fully proofread.
प्रथम आश्वासः ।
अव्यथितः सद्योद्धा पदमकृत द्वेष्टुरग्रतः सद्योद्धा ।
घटया शैलीमुख्या दलितोऽप्येषा सुभटशैली मुख्या ॥ ५३ ॥
अव्यथित इति । (अव्यथितः सद्यो द्धा पदमकृतेति ? ) । शिलीमुवाः शराः
तेषामियं शैलीमुखी ।
>>
" पुल्लिङ्गः स्याच्छिलीमुखः शरे मधुकरे च द्वे । "
इति केशवः। शैली मुख्या घटया समूहेन, दलितोऽपि त्रणितोऽपि, सद्योद्धा सन् विशिष्टो
योद्धा, सद्यः शरपातसमय एव, द्वेष्टुः प्रहर्तुः, अग्रतः पुरस्तात्, अद्धा प्रत्यक्षं, पदं पद-
बिन्यासम्, अकृत कृतवान् । शरनिकस्त्रणिताङ्गोऽपि पराङ्मुखो नाभूदित्यर्थः । कीदृशः ।
अव्यथितः बीर्थयत्त्वेनाविदितव्यथः । अस्य युक्ततां समर्थयितुम् अर्थान्तरमाह - एषेति ।
महत्यपि कृच्छ्रे द्विपतः पुरोऽवस्थितिः मुख्या श्रेष्ठा, सुभटशैली हि, सुभटानां
सद्योद्धणां शैली खभावः । शीलमेव शैली । "प्रज्ञादिभ्यश्च" (पा० सू० ५ - ४ ३८) इति
स्वार्थेऽण्प्रत्यः। स्वार्थिकाश्च प्रकृ (ति)तो लिङ्गवचनान्यतिवर्त्तन्तेऽपि इति स्त्रीलिङ्गता ॥५३॥
-
८
क्षुधितेनापि शितेपुव्याप्तेषु विलम्बनं शुना पिशितेषु ।
प्रियमशनं प्रत्यूहे न विषक्तं किं प्रयोजनं प्रत्यूहे ॥ ५४ ॥
क्षुधिनेनेति । शुना सारमेयेण, क्षुधितेनापि बुभुक्षितेनापि, पिशितेषु मांसेषु,
प्रियम् इएम्, अशनं भक्षणं, प्रति विलम्बनं कालक्षेप ऊहे । शितेपुव्याप्तेष्विति ।
शितैर्निशितैः इषुभिश्शरैः व्याप्तेषु । शल्यनिकरप्रोतेवित्यर्थः अर्थान्तरमाह - नेति ।
किं प्रयोजनं फलं, प्रत्यूहे विघ्ने, न विषक्तं व्याप्तं भवति । सर्वमपि प्रयोजनं प्रत्यूह-
व्याप्तमेवेत्यर्थः । विघ्नोऽन्तरायः प्रत्यूहः " इत्यमरः ॥ ५४ ॥
66
वानः कानकवलयं निष्क विशेषांश्च हाटकानकवलयन् ।
मत्वामी मांसानि स्फुटं तिरवां मनांस्यमीमांसानि ॥ ५५ ॥
श्वान इति । अमी रणभूमौ वर्त्तमानाः, श्वानः कौलेयकाः, कानकवलयं
कानकं कनकविकारं वलयं कङ्कणं, हाटकान् स्वर्णविकारान्, निष्क विशेषान् उरोभूषणं