This page has not been fully proofread.

सव्याख्ये त्रिपुरदहने
 
विभज्य दास्याम इत्यादिवचनं रसितं सिंहनादश्च यस्य तत्तथा । तथा सकवचोरमि
कवचेन उरस्त्राणेन सह वर्त्तमानं उरो वक्षः प्रदेशो यस्य तत्तथा । युद्धसन्नद्ध इत्यर्थः ॥५०॥
 
अथ देवा असुराश्च योद्धप्रतियोद्धृभावेन समागच्छन्त इत्याह -
 
४०
 
क्षुभितांम्बुद्धयालोके गम्भीरे विस्तृते च बुद्ध्या लोके ।
परुषगिरा जघटाते सुरराजघटा च दनुजराजघटा ते ॥ ५१ ॥
 
क्षुभितेति । (सुरराजघटा) सुरराजस्य इन्द्रम्य घटा अर्थात् सेनासमूह, दनुजराजघटा
दनुजराजानां तारकाक्षादीनां घटा च, ते उभे, परुषगिरा परुषया श्रुतिकटुकया गिरा
वचनेन सह जघटाते अन्योन्यं सङ्गते बभूवतुः । घटाद्वयं विशिनष्टि क्षुभिनेति ।
आलोक्यत इत्यालोको रूपं क्षुभितो विकृताम्बुः अम्बुधिः समुद्रः तस्यालोक इवालोको ययोस्ते
तथा । क्षुभितसमुद्रवदप्रधृप्यक इत्यर्थः । तथा लोके जगति, बुद्धया धिया, गम्भीरे
अगाधे, विस्तृते च विस्तारशालिन्यौ । न केवलं रूपमात्रेण बुद्ध्यापि समुद्रतुल्ये
इत्यर्थः ॥ ५१ ॥
 
अथ चतुर्भिः श्लोकैयुद्धं वर्णयति -
 
-
 
सत्फलकरत्वामिप्रवरैः समरे न सैनिकैरवासि ।
 
उन्नदता चापेन प्रणतिर्गुणिना धनुर्भृता चापे न ॥ ५२ ॥
 
सत्फलर्करिति । अत्र देवासुरकर्तृके, समरे युद्धे, असिप्रवरैः असिषु खड्ङ्गेषु मध्ये
प्रवरैः श्रेष्ठैः,अत्रासि । (सैनिकैः नात्रासि) असिप्रवरसैनिकान् विशिनष्टि – सत्फलकेंरिति ।
सन्ति परप्रहारनिपुणत्वाद् उत्कृष्टानि फलकानि चर्माणि साहचर्येण वा देहत्राणसाधनतया वा
येषाम् असिप्रवराणां च सैनिकानां च तैः तथा । शत्रुन् प्रहर्तुमसीनां चलने च सैनिकानां
भयाभावे च सत्फलकत्वं हेतुः । चापेन धनुषा, प्रणतिः आकर्णकर्षण, त् कौटिल्यम् आपे
प्राप्ता। (धनुर्भुता च प्रणतिः न आपे न प्राप्त ) । धनुषः कौटिल्ये च धनुभृतो नमनाभावे च
हेतुर्गुणिनेति । गुणो मौर्वी शौर्यादिश्च । उन्नदत्तेत्येतदप्युभयसाधारणं विशेषणम् उन्नदता
शब्दायमानेन । धनुष: शब्दष्टङ्कारः, धनुर्भूतः सिंहनादः ॥ ५२ ॥
 
."