This page has not been fully proofread.

प्रथम आश्वासः ।
 
अधासुरोपद्रुतः शक्रः युद्धायौद्युक्तवानित्याह-
अथ पुरतोऽगरपाता स्वचमृश्चलयन् सवाणतोमरपाताः ।
सुदुरासदमारेभे स्थितः स्वयं योद्धुमसुरसदमारेभे ॥ ४९ ॥
 
अथेति । अथ असुरपीडानन्तरम्, अमरपाता अमरान् पाति रक्षति तच्छीलः, अमरपाता
इन्द्रः । तृन्नन्तं रूपम् । असुरसदमा असुरसमूहेन सह, योद्धगारेभे उपक्रान्तवान् ।
कीदृशः । पुस्तः अग्रे, स्वचम्ः देवसेनाः, चलयन् युद्धाय निर्गमयन् । णिचा चमूनां
युद्धं प्रत्यनुद्युक्तता द्योत्यते । तथा स्वयं सुदुरासदार सुदुरासदे सुदुष्प्रापे दुरभिभव
इत्यर्थः । अत एव सारे उत्कृष्टे इमे गजे ऐरावते स्थितः आसीन: । चमूविंशिनष्टि -
सवाणेति । स्वाणतोमरपाताः तोमर आयुध विशेषः । बाणाश्च तोमराश्चेति द्वन्द्वः । तेषां
पात: तथा बाणतोमरपातेन सह वर्त्तमानः तथा सबाणतोमरपाताः पतनं यासां तास्तथा ।
उपलक्षणमेतढायुधान्तरम्य । गृहीतनिखिलायुधा इत्यर्थः ॥ ४९ ॥
 
अथ युद्धोद्युक्तमिन्द्रं दृष्ट्वा दैत्या अपि युद्धोधुक्ता बभूवुरित्याह –
 
पेतुस्साध्यवसायाः क्षेप्तारो जगति सिद्धसाध्यवसायाः ।
अतिकटुकवचोरमिते देवबले दानवाः सकवचोरसि ते ॥ ५० ॥
 
पेतुरिति । ते प्रकृता दानवाः, देवबले देवस्य इन्द्रस्य बले सैन्ये विषये, पेतुः देवबलं
प्रति योद्धुं पुरत्रयं जम्मुरित्य: । कीदृशाः । साध्यवसायाः अध्यवसायेन देवान् जेप्याम
इति निश्चयेन सहिताः । तथा जगति सिद्धसाध्यवसायाः सिद्धाः साध्याश्च देवविशेषाः
तेषां वसायाः क्षेप्तारः खण्डयितारः । वसा नाम शरीरान्तर्गतो धातुभेद: । सिद्धसाध्योपादान -
मन्येषामप्युपलक्षणम् । देवानां पीडयितार इत्यर्थः । न तु स्वर्गस्थाना मेवा भिनिहन्तारः
चतुर्दशभुवनेषु यत्र कचिन्निलीनानामध्यन्विष्य निहन्तारः इति द्योतयितुं जगतीत्युक्तम् ।
देवबलं विशिनष्टि – (अतिकटुकवचोरसिते) अतिकटुकं अतिकरं वचो रे
दानवापशदाः ! युद्धाय निर्गच्छत इदानीमेव युष्मच्छरीराणि गृध्रादीनां प्रातराशाय