This page has not been fully proofread.

प्रथम आश्वासः ।
 
३७
 
अथ तेषामवस्थितं निगमयन् "वृत्तिमकृत कां च न्यायाद्" इति यदुक्तं न्यायातिक्रमणं
तद्विवृणोति -
 
इत्यलघोरजवरतस्त्रिजगति स जनश्वचार घो रजवरतः ।
 
आस्थायागारं भान्निजधान च तत्र तत्र यागारम्भान् ॥ ४६॥
 
-
 
इतीति । स जनो दैत्यजनः, अजवरतः अजस्य ब्रह्मणः वरतः अनुग्रहाद्धेतोः, अगारम्
जातावेकवचनम्, अगाराणीत्यर्थ: । आस्थाय अधिष्ठाय, इति उक्तप्रकारेण, त्रिजगति
चचार पर्यटितवान् । अजवरं विशिनष्टि - अलघोरिति । अलधोर्गुस्तरात् । ईदृशि
दैवानुग्रहे किमशक्यमिति भावः । तत्र तत्र यत्र यत्र याग आरभ्यतेतस्मिंस्तस्मिन्,
यागारम्भान् यज्ञारम्भान्, निजघान च भग्नानकरोत् । तत्र तत्र "नित्यवीप्सयो:"
(पा० सू० ८-१-४) इति वीप्सायां द्विर्वचनम् । वीप्सया यज्ञभङ्गस्य कचिदपि व्याप्तिभङ्गो
नासीदिति द्योत्यते । जनं विशिष्टि - घोरजवरत इति । घोरे भयानके जवे वेगे रतः ।
यावता वेगेन एकक्षण एव निखिलयज्ञभङ्गो भवेत् तावता वेगेन युक्त इत्यर्थः ।
 

 
"वोरस्त्रिषु भयानके ।
 
""
 
कष्ट इत्यपरे द्वे तु सृगाले क्ली तु कुङ्कुमे ।
 
इति केशवः । तथा भान् जगत्रयेऽपि केनचिदप्यवार्यवीर्यत्वाद् द्योतमानः ॥ ४६ ॥
 
अथ द्वाभ्यां श्लोकाभ्यामसुरैर्लोकत्रयवासिनो जना बाध्यन्ते स्म इति भयन्तरेणाह-
प्रेक्ष्य पुरस्ता देवप्रवराः सञ्चारिणीः पुरस्तादेव ।
 
यद्यपि विप्राचल्या: स्पर्धा दधुरेव सह च विप्रावल्या ॥ ४७ ॥
 

 
प्रेक्ष्येति । देवप्रवराः श्रेष्ठाः इन्द्रादयः, पुरस्तादेव स्वेषामग्रत एव, न तु यत्र कुत्रचित्
प्रदेशान्तरे । सञ्चारिणीः पुनः पुनः सञ्चरन्तीः । " बहुलंमाभीक्ष्ण्ये " (पा०सू०३-२-८१)
इति णिनिः । ताः पुरः पुरीः, प्रेक्ष्य प्रेक्षणाद्धेतोः, विप्राबल्याः विगतं प्राबल्यं प्रकृष्टबलत्वं
येभ्यस्ते तथा, हीनशक्तयः, यद्यपि त्रिप्रावल्या च विप्राः ब्राह्मणास्तेषामावलिः समूहः
तया। चशब्दादन्तरिक्षवासिना जनेन च सह स्पर्धा दधुः सङ्घर्षं धृतवन्तः ।