This page has not been fully proofread.

३६
 
सव्याख्ये त्रिपुरदहने
 
प्राप्तवान् । चशब्दो वक्ष्यमाणान्तरिक्षभूम्योम्समुच्चयार्थः । ननु इन्द्रे प्रियमाणे कथमसौ
देवशत्रुः स्वर्ग प्राप्तवानित्यत्राह - हरेरिन्द्रस्य, जेता अभिभविता । कीदृशस्य । यानेषुमतः
यानं वाहनं इपुश्शरः। उपलक्ष गमेतद् वज्रादेः । ऐरावतोपरि आयुधं गृहीत्वा
स्थितस्येत्यर्थः । तारकाक्षस्य बलोत्कर्ष एव हरेः पराजये हेतुः, न तु सामग्रयभावः । किं
बहुना सर्वमप्यमर्यादमेवाचरितवा नित्याह- - वृत्ति निति । चशब्दोऽलङ्कारपूरणार्थः । उक्तं च
भोजेन – वा च - स्म - ह हि वै - अहो खलु - अही इत्यादयोऽलङ्कारपूरणार्थाः इति ।
असौ न्यायात् न्यायं मर्यादामाश्रित्य कांकृतिं प्रवृत्तिम् अकृत । न कार्माप सर्वामध्यन्यायेन
कृतवानित्यर्थः : ॥ ४४ ॥
 
"
 
स्वत्रशं राजत्यागात् कमलाक्ष: ग्वं च खचरराजत्यागात् ।
विद्युन्माल्यावस्या स्थलं भुवो भृमयः समाल्या यस्याः ॥ ४५ ॥
 
स्ववशमिति । अत्र पुर्येत्यनुषयते । कमलाक्षः तारकाक्षस्य कनीयान्, राजत्या रजत-
विकारेण, पुर्या रवं चाकःशम्, अगात् गतवान् । खं विशिष्ट स्त्रत्रशनिति। खचर
राजत्यागान् खे चरन्तीनि खचराः ।
" चरेट: " ( पा० सू० ३-२-१६) इति टः ।
विद्याधराः तेषां राजानः ग्वचरराजाः । 'राजाहः सखिभ्यष्टच् " (पा० ० ५-४९१ )
समासान्तः । तेषां त्यागात् परिभूत्र निष्कासनाद्धताः । स्वशं स्वाधीनं विद्युन्माली
 
66
 
कमलाक्षम्य कनीयान्
च प्रदेशमध्यगात् ।
 
आयस्या अयोविकारेण पुर्या, भुवो भूमेः, स्थलं
अगादित्यनुपज्यते चशव्दश्च । काञ्चनराजतापेक्षयायः प्रसक्तं
 
2
 
न्यग्भावं तिरोधित्सुरायसीं विशिनष्टि - भूमय इति । यस्याः आयस्याः पुर्याः, भूमयः
प्रदेश : समाल्याः पुष्पसहिताः । उपलक्षणमे दुत्कृष्टवस्तूनाम् ।
 
" माल्यं क्की कुसुमे पुष्पे मालायां चाथ भेद्यवत् ।
धायें "
 
इति केशवः । अत्र तारकाक्षादि संज्ञाशब्दानां पूर्व केनचित् प्रमाणेन सिद्धत्वाद्विधातुं
योग्यत्वेऽपि तेषां प्रसिद्ध चतिशयं द्योतयितुमुद्देश्यत्वेन निर्देशः कृत इति बोद्धव्यम् ॥ ४६॥