2024-01-01 06:20:00 by ambuda-bot
This page has not been fully proofread.
प्रथम आश्वासः ।
३५
अनुद्भवाय। भवभवनं विशिष्टि- दत्त इति । ( दत्तनन्दनप्रतिभवनं ) दत्ता वितीर्णा नन्दने
नन्दनोयाने विषये प्राप्ता प्रतिभा इदं नन्दनोद्यानमिति प्रतीतिर्थेन तत् दत्तनन्दनप्रतिभं,
तथाविधं वनं यस्मिन् तत्तथा । अत एतस्माद्धेतो, असुरकुलानि शं सुखम् आयातानि
प्राप्तानि, ध्रुवं निश्चितमेतदित्यर्थः ॥ ४२ ॥
मनसः सद्यो गेहान्महासुराणां पृथक् च सद्यो गेहान् ।
अकृतासुरतक्षेमे न्यव मंत्रिपुरेऽत्र दत्तसुरतक्षेमे ॥ ४३ ॥
मनस इति । असुरतक्षा मयः, महासुराणां पृथक् प्रत्येकं, मनसः मनश्चित्तं
सहकारितया तदाश्रित्य । ल्यचूलोपे पञ्चमी । सङ्कल्पमात्रेणेत्यर्थः । गेहांश्च गृहाण्यपि,
(मुद्यः) अकृत कृतवान् ।
" न नोदवसितं न स्त्री गेहं पुं भूम्नि वा गृहम् ।
66
इति यादवः । मनो विशिनष्टि - सद्योगेहादिति । सती विशिष्टा योगे चित्तनिरोधे ईहा
व्यापारो यस्य तत्तथा । योगप्रभावः किं न साधयेदिति भावः । ते च पुराणि प्राविक्ष-
न्नित्याह - इम इति । इमे त्रयोऽनुराः, अत्रेतस्मिन्, त्रिपुरे त्रयाणां पुराणां समाहारस्त्रि
पुरम् ।
तद्धितार्थ " (पा० सू० २-२-५२) इत्यादिना समासः । पात्रादित्वात्
स्त्रीत्वाभावः । तस्मिन् न्यवसन् निवासमकुर्वन् । कीदृशे । दत्तसुरतक्षेमे दत्तं सुरतस्य
क्षेमो रक्षा येन तत्तथा । निवासानां रमणीयतया चोद्दीपनपदार्थसार्थसमृद्धया च रत्यनुकूल
इत्यर्थः । अनेन तन्मनोरथपरिपूत्तिदर्शिता ॥ १३ ॥
अथ श्लोकद्वयेन तेषां विभागेनावस्थानमाह -
यो ज्यायानेषु मतः स तारकाक्षो हरेश्च यानेषुमतः ।
जेता काञ्चन्यायात् पुर्या द्यां वृत्तिमकृत कां च न्यायात् ॥ ४४ ॥
य इति। य एषु त्रिष्वसुरेषु मध्ये, ज्यायान् ज्येष्ठो, मतः लोकैर्ज्ञातः, स तारकाक्षः
तारकाक्षो नामासुरः, काञ्चन्या काञ्चनविकारेण, पुर्या करणेन; द्यां च स्वर्गमपि, आयात्