This page has not been fully proofread.

३४
 
सव्याख्ये त्रिपुरदहने
 
स तुष्टमवृणोदेवं वापी भवतु नः पुरे ।
शस्त्रैर्बिनिहतास्तत्र क्षिप्ताः स्युर्बलवत्तराः ॥
अनुजज्ञे विधाता तं जम्मुर्मयमथासुराः ।
सोऽपि वापीर्हरेर्वाक्यादकरोन्मय उत्तमाः ॥
 
99
 
इति । इत्थं च यत् प्रमेयमत्रानुक्तं तं सूचयन् सरः पङ्क्ती विशिनष्टि - सरसा इति ।
रसो वीर्थं तत्सहिताः । ब्रह्म गोऽनुग्रहात् शस्त्रहतज (न) नैरुज्योत्पादनसामर्थ्यश लिनीरित्यर्थः ।
 
66
 
रसो रागे विषे वीर्य तिक्तादौ पारदे द्रवे ।
रेतस्यास्वादने हेम्नि निर्यासेऽमृतशब्दयोः ॥ "
 
इति केशवः । तथा मकरोइताः मकरैः झषसंज्ञैः । महामत्स्य विशेषैरित्यर्थः ।
उद्भूता उत्कम्पिताः । मकराश्रयत्वेन सरसां वैपुल्यमग / धता च प्रत्याय्यते ।
 
66
 
मकरस्तु ना ।
 
निधिभेदे च राशौ च दशमे स्याद् द्वयोः पुनः ।
झषसंज्ञे जलचरे "
 
इति केशवः । तासां रत्युद्दीपनत्वमाह - उत्पलेति । एताः
सुरतोत्सवेषु, कं पुरुषम्, अलमं मन्द चक्रुः? न कमपि ।
समेता इति । उद्दीपनभूतैरुत्पलैः कमलैश्च समेतत्वादित्यर्थः ॥ ४१ ॥
 
सर: पङ्क्तयः, कामोत्सवेषु
तत्र हेतु: उत्पलकमल-
अपि तेन प्रतिभवनं भवभवनं दत्तनन्दनप्रतिभवनम् ।
व्यसनश मायातानि ध्रुवमसुरकुलान्यतः शमायातानि ॥ ४२ ॥
 
अपीति । तेन मयेन, प्रतिभवनं भवने भवने, भवभवनं भवस्य भवनं निकेतनं च
अतानि रचितम् । किमर्थं तदित्यत्राह-व्यसनेति । (व्यसनश माय) व्यसनानामनर्थानां शान्तये