This page has not been fully proofread.

प्रथम आश्वासः ।
 
३३
 
यत्रेति । अत्र अपिशब्द वाक्यर्थ समुच्चिन्वन्तौ आभासमानं विरोधं च द्योतयतः ।
तत्र वाक्यार्थसमुच्चये भिन्नकौ । यत्र पुस्त्रये, रागाः विषयाभिलाषा:, मन्दाः अल्पा,
न भवन्ति अपि ।
 
" रागोऽनुरागे मात्सर्ये रक्तवर्गे रजस्यपि
लाक्षादिरञ्जनद्रव्ये दीतों क्लेशादिकेऽपि च ॥ "
 
-
 
इति केशवः । तत्र हेतुं प्रकटयन् पुस्त्रयं विशिनष्टि – भुव इति । विपुलमन्दारागा
विपुला महान्तो मन्दारागा मन्दाराव्या वृक्षाः यासु ताः, भुव: प्रदेशन् दधाने
बिभ्राणे। प्रदेशानां कुत्सुनादिमृत्युपदव्यरूपतत्वं रागवृद्धी हेतुरित्यर्थः ।
 
,
 
66
 
भृर्भूम्यां स्थानमात्रे च सौराष्ट्रयां व्योमदेहयोः ।"
 
इति केशवः । यत्र कुः भूमिः, सुबहुना भूयसा, भ्रमरीसुरवेण भ्रनरीणां
भृङ्गीणां सुरवेण शांभनेन रवेण झङ्कारण कर्ता, अवापि प्राप्ता च । तत्र हेतुः धृतनाना-
कुरवेति । कुरवो वृक्षविशेषः । कुसुमकोरकाङ्कुरा दिमत्तया नानात्वम् । यत्र मन्दा रागा न
भवन्ति तत्रैव मन्दारागा भवन्ति च । यत्र भूमिः सुखयुक्ता तत्रैव सा कुरवयुक्ता चेति
विरोधाभासः ॥ ४० ॥
 
अत्र त्रिभिः श्लोकैः मयस्य प्रवृत्तिविशेषमाह -
 
तत्र च सरना मकरोद्भूताः पङ्क्ती: स एव सरसामकरोत् ।
उत्पलकमलसमेताचक्रुः कामोत्सवेषु कमलसमेताः ॥ ४१ ॥
 
तत्र चेति । तत्र पुरत्रये,स एव मय एव,सरसां वापीनां, पङ्क्तीः आवली:, अकरोत् ।
तत्र तारकाक्षः कमलाक्षो विद्युन्मालीति त्रयाणामसुराणां नामानि । तत्र तारकाक्षस्य हरिर्नाम
पुत्रोऽभूत् । तस्य वचनाद् मयः तत्र वापीः कृतवान् । यथोक्तं श्रीमदृव्यासमुनिना -
 
66
 
तारकाक्षसुतश्चासीद्धरिनम महाबलः ।
तपस्तेपे परमकं तेनातुष्यत् पितामहः ॥