This page has not been fully proofread.

प्रथम आश्वासः ।
 
5
 
बिभ्राणं दधानम् अत एव यच्चापणत्रत् निषद्यायुक्तम् । "आपणस्तु निषद्यायाम्"
इत्यमरः । यच्च द्राधीयो गुरुपरिवं द्राधीयस्यो दीर्घतरा (उ?गु)र्व्यः पृथ्व्यः परिखा यस्मिन्
तत्तथा । "खेये तु परिखाम्बुधौ। भूभृत्यपि इति केशवः । यत्र च यस्मिन्, केतुयष्टयः
ध्वजदण्डाः, उपरि ऊर्ध्वप्रदेशे, खं नीलाकारतया प्रतीयमानम् आकाशम्, अगुः गतवन्तः ।
ध्वजोच्छ्रायो हि प्रशस्यनानोत्कर्षाविहां भवति । तथाहि राजानः कविभिरुपश्लोक्यन्ते
उद्दण्ड इति ॥ ३७ ॥
 
अथ परपरिभवाविषयत्वेन वर्णयति
 
यद्यधि नानापत्तिस्यन्दनगजवा जिवाहनानापत्ति ।
 
प्राप्य च वासव्यापद् वरूथिनी दश दिश: सवासव्यापत् ॥ ३८ ॥
 
यदिति। वासवी इन्द्रसंबन्धिनी, वरूथिनी सेना, युधि युद्धे निमित्ते । युद्धार्थमिति
यावत् । यत् पुरत्रयं, प्राप्य गत्वा, दश दशसंख्याकाः, दिश आशाः, आपत् प्राप्तवती ।
नानादिक्षु पलायनमकरोदित्यर्थः । भीत्येति शेषः । युधीत्यत्र "निमित्तात् कर्मसंयोगे सप्तमी
चक्तव्या" (पा० सू० वा० २-३-३६) इति सप्तमी । वरूथिनीं विशिनष्टि-नानेति ।
(नानापत्तिस्यन्दनगजवाजिवाहना) पत्तिः पदातिः, स्यन्दनो रथः, गजो हस्ती, बाजी
तुरगः । स्यन्दनाश्च गजाश्च वाजिनश्चेति द्वन्द्वः । स्यन्दनगजवाजिनश्च ते वाहनानीति विशेषण-
स्वमासः । पत्तयञ्ध स्यन्दनगजवाजिवाहनानि चेति द्वन्द्व । नानाविधानि पत्तिस्यन्दनगजवाजि -
वाहनानि यस्यां सा तथा । शक्तिहीनत्वमेव पलायने हेतुः, न तु सामग्रीविरह इति भावः ।
पुस्त्रयं विशिनष्टि अनापत्तोति । अविद्यमाना आपत्ती देवसेनाकृता पीडा यस्य
तत्तथा । पुरत्रयं प्राप्य प्राप्तिकार्यमकृत्वा बहिर्भागादेव पलायिता देवा इत्यर्थः । देव-
सेना तु नैतादृशीत्याह - सवालव्यापदिति । वासो वासस्थानम् । "अकर्तरि च कारके
संज्ञायाम् " (पा० सू० ३-३-१९) इत्यधिकरणे घञ्ञ् । वासस्य व्यापत् असुरक्कृता पीय
तया सह वर्तमाना तथोक्ता । असुरोपमर्दितखर्गा इत्यर्थः ॥ ३८ ॥