This page has not been fully proofread.

३९
 
सव्याख्ये त्रिपुरदहने
 
प्रत्याय्यते । दानवलोकं विशिनष्टि अनलोकस्थायी (मायाबलात्) मायायाः मय-
निर्मितायाः बलाद् शक्तेर्हेतोः अनवलोकस्थायी अनवलोकमविद्यमानोऽवलो कोऽन्यकर्तृकं
दर्शनं यथा भवति तथा स्थितिशीलः । मयमायावैचित्र्येण न्यैरदृश्यमानस्तिष्ठन्
 
इत्यर्थः । अनेन पुरान्तरेभ्यो व्यतिरेको दर्शितः । अथास्य परिमाणमाह - योजनेति ।
यत् पुरत्रयम्, आया नात् आयामो ये तमाश्रित्य योजनशत मानें चतुष्कोशपरिमितो
वा अष्टक्रोशपरिमितो वा अध्वा योजनम् ।
 
इति केशत्र:
 
उपलक्षणम् ।
 
"अथ योजनं परमात्मनि ।
 
अध्वमाने चतुष्कोशे मगधादिषु भूमिषु ॥
 
अष्टक्रोशं तु देशेषु कोसलादिषु मन्यते ।
तथा युक्तिक्रियायां च "
 
। योजनानां शतनानं परिमाणं यस्य तत्तथा । आयामो विस्तारस्य
उक्तं च श्रीमद्वयासमुनिना-
66
 
एकैकं योजनशतं विस्तृतं तावदायतम् ।"
 
इति । अनेन पुरान्तरेभ्यो व्यतिरेको दर्शितः ॥ ३६ ॥
 
अथ नित्योत्सवादिमत्तया वर्णयति
 
उल्वणनानापण वध्वनि बित्राणं वणिग्जनानापणत्रत् ।
द्राधीयोगुरुपरिखं यद् यत्र च केतुयष्टयोऽगुरुपरि खम् ॥ ३७॥
 
उल्बणेति । यत् पुरत्रयम्, उल्बण नानावणवध्वनि उल्चणः स्फुटो नानाविध:
उत्सवदेवपूजाराजयात्राद्यर्थत्वात् अनेकप्रकारः पणवानां डिण्डिमाख्यवाद्यविशेषाणां ध्वनिः
नादो यस्मिन् तत्तथा । 'स्फुटं प्रव्यक्तमुल्यणम्" इत्यमरः । "पणवस्त्वपि डिण्डिमे
गजस्कन्धेऽपि" इति केशवः । यत्र वणिग्जनान् वाणिज्यकर्तॄणां जनानां समूहान्,