This page has not been fully proofread.

प्रथम आश्वासः ।
 
-
 
यस्य स तथा । योगप्रभावजमिह पटुत्वं विवक्षितम् । तथा च वक्ष्यति – 'मनसः सद्योगेहादू'
इति । योगनभाव(व) तां किमशक्यनिति भावः । पटुमनसा करणेन प्रचिन्त्येति केचित् ।
लागतार्थस्यापि मनप उपादानं पटुत्य विशेषगदानार्थमिति न दोषः । न केवलं
सहकार्येव, उपादानमप्यसाधारणमेवासीदिति वक्तुं पुस्त्रयं विशिष्ट रूप्यायः स्वर्णमयामिति ।
रूप्यं रजतम् ।
 
" रूप्यं तु की विभूषणे ।
आहते हेनरजनद्वये रजत एव च ॥
 
त्रि तु प्रशस्तरूपेऽपि रुपणीये "
 
द्वन्द्वान परे श्रयमाणं प्रत्येकमपि सेंबध्यते " इति न्यायाद्
रुप्यमयनयोमयं स्वर्णमय मिति । एतेषामन्यतमे नैव
 
इति केशवः ।
 
मयट: प्रत्येकमपि संवन्धः
 
निर्मातव्ये किमर्थमुपादानत्रैविध्यमङ्गीकृतमित्यत्राह - त्रिभुवनस्येति । त्रयाणां भुवनानां
समाहारः त्रिभुवनम् । पात्रादित्वात् स्त्रीत्वाभावः । तस्य सारूप्याय सादृश्याय ।
भुवनत्रयम्य सत्त्वर्जस्तमोमयत्वात् तेषां च शुकुरक्तकृष्णरूपत्वात् त्रिरूपत्वे पुराणामपि
शुकादिरूपतया तादृष्यं सम्भावयितुमित्यर्थः । अनेन पुस्त्रयप्रातिभचे भुवनान्येव
पर्याप्तानि न तु पुरान्तराणि इति द्योत्ते । पुनरपि तदेव विशिनष्टि – रमणीयमिति ।
रचनावैचित्र्यान्नयनम(नु.नो)हारीत्यर्थः । तथा प्राकारि अतिशयिता बहवो वा प्राकारा
यस्मिन् तत्तथा । अतिशायने वा भूमनि वा मत्वर्थीयः । शत्रुभिर्दुर्गम इत्यर्थः ॥ ३५ ॥
 
अथ पञ्चभिः श्लोकैः पुस्त्रयं वर्णयति
 
-
 
यत्र सदानवलोकस्थायी मायावलात् स दानवलोकः ।
स्थितिमादायामाधद् योजनशत मानमभत्रदायामाद् यत् ॥ ३६॥
 
"
 
"
 
यत्रेति । सः प्रकृतो दानवलोक: दैत्यजनः, यत्र पुरत्रये, स्थितिं निवासम् आदाय
परिगृह्य विधायेति यावत् । सदा सर्वस्मिन् काले, अमाद्यत् हृष्टोऽभूत् । यन्निवासा-
द्धेतोः दुःखेनानन्तरितत्वेन सुखमेव प्राप्तवा नित्यर्थः । अनेन पुराणामचिन्त्यः कोऽप्यनुभावः