This page has not been fully proofread.

२८
 
सव्याख्ये त्रिपुरदहने
 
अथैवं भवत्विति ब्रह्मणानुगृहीते तेषां प्रवृत्तिमाह -
 
वरमादाय पुराणान्नाथाद्विधये दुरासदाय पुराणाम् ।
पदमतिदैवमयन्ते यतोऽसुराः प्रापुरिति तदैव मयं ते ॥ ३४ ॥
 
वरमिति । प्रकृता दैत्याः पुराणात् चिरन्तनाद्, नाथाद् ब्रह्मणः, वरम् ईप्सितम्,
आदाय गृहीत्वा, तदैव यस्मिन् काले वरो लब्धः तस्मिन् काल एव, मयं मयनामानम्
असुरशिल्पिनं, प्रापुः प्राप्तवन्तः ।
 
" बरो ना भूपज/मात्रोर्देव देरीप्सिते कृधि । "
 
:
 
इति केशवः । किमर्थं प्रापुरित्यत्राह - विधय इति । पुराणां पुरीणां, विधये
निर्मापणायेत्यर्थ: । कीदृशाय । दुरासदाय दुष्पापाय । अलभ्यायेत्यर्थः अन्येषामिति
शेषः । कुतस्ते शिल्पिजनशिरोमणौ विश्वकर्मणि त्रियमाणे मयं प्रापुरित्यत्राह-पदमिति ।
असुराः । जातिपरोऽयं निर्देशः । (अ ? आ)सुरी जातिरित्यर्थः । यतः यस्मात् मयात्,
पढ़ं
पुरादिलक्षणं, स्थानम्, अयन्ते अद्यापि प्राप्नुवन्ती ति इतिहतौ । असुरजनैर्निज-
शिल्पित्वेनाङ्गीकारो मयप्राप्तौ हेतुरित्यर्थः । न केवलमसुरशिल्पिवमेवेत्यस्य शिल्पातिशयोऽपि
हेतुभावं भजते इति प्रकटयन् पदं विशिनष्टि - अतिर्देवमिति । देवानमिदं दैवं
स्वर्गादि, दैवमतिक्रान्तम् अतिदैवं स्वर्गादेरपि विशिष्टतरमित्यर्थः ॥ ३४ ॥
 
अथ पुरनिर्माणे प्रयुक्तस्य मयस्य प्रवृत्तिम।ह
 
पटुमनसा रूप्यायस्वर्ण मयं त्रिभुवनस्य सारूप्याय ।
रमणीयं प्राकारि प्रचिन्त्य तेन च पुरत्रयं प्राकारि ॥ ३५ ॥
 
पटुमनसेतिं । तेन मयेन, (वि ? प्र) चिन्त्य स्मृत्वा । सङ्कल्पमात्रेणेति यावत् । सङ्कल्प
एवास्य पुरनिर्माणे सहकारी न तु वासीकुठारादिकमिति भावः । पुरत्रयं प्राकारिं
कृतम् । कथं सङ्कल्पमात्रेण कृतवानित्यत्र तं विशिनष्टि - पटुमनसेति । पटु निपुणं मनो