This page has not been fully proofread.

प्रथम आश्वासः ।
 
पृथगिति । हे सुरसत्तम, हे देवश्रेष्ठ, नः अस्माकं ते भवदनुग्रंहविषयत्वेन
पंकृता: निलयाः, पुराणि, जगति अहितावध्यं अहितैः शत्रुभिरवध्यमनिग्राह्यं यथा भवति
तत्रा, पृथक् असंभूय, चरित्वा इतस्ततो गत्वा, अब्ददशशतावध्यन्ते अब्दानां संवत्सराणां
दशशनानि सहस्रं तान्येवावधि सीमा तस्यान्तेऽवसाने । संवत्सराणां सहस्रे पूर्ण
इत्यर्थः । जितमनोनिलया लोके मनोनिलौ हि वेगातिशये प्रसिद्धौ तावपि जितौ
परिभूतौ यया तया, गत्या गमनक्रियया, घटनां सङ्ग तिम्, इयुः प्राप्नुयुः । एतदुक्तं
भवति- सहस्रसंवत्सरान् शत्रुभिरपरिभान्या भूत्वा जगति पृथक् पृथक् चरितानामस्मन्निलयानां
संवत्सरसहस्रसंख्यापू(रे?रके) समये वैगितया गत्या सङ्गतिरस्त्विति । वेगितगत्या संयोगे
तदैव वियोगोऽवश्यम्भावीति सङ्गतिमेव वृतवन्तः ॥ ३२ ॥
 
२७
 
अथैते ब्रह्मणो मुखान्निर्मरणत्वस्याल भ्यताश्रवणात् स्वेषां वध्यत्वमङ्गीकुर्वाणास्तत्र
कालस्य च साधनस्य, कर्तव्यस्य च कर्तुश्च नियमं प्रार्थयन्ते
 
-
 
सच हन्नेह न नेन स्यादस्माकं यतिष्यते हनने नः ।
ताश्च भिदांमानीय स्वयमेकेनेपुणा तदा मानी यः ॥ ३३ ॥
 
19
 
स चेति । चौ वाक्यार्थसमुच्चये। इन हे खामिन् इह अस्मिल्लोके, नोऽस्माकं,
हन्ता वधकर्ता न न स्याच्च । द्वयोर्नञोः प्रकृतार्थावधारकत्वात् स्यादेवेत्यर्थः । स
इत्युक्तम् । कोऽसावित्यत्राह - यतिष्यत इति । यो मानी अभिमानवान् अस्मत्प्रसरणा-
सहिष्णुरित्यर्थः । स्वयं सहायानपेक्षः, तदा यस्मिन् काले पुर्यो घटनामियुः तस्मिन्
काले । एकेन एकत्वसङ्ख्यायुक्तेन, इपुणा शरेण, ताः भवता अनुग्रहीप्यमाणत्वेन,
प्रकृतमदः पुरं, भिदां भेदम् आनीय नोऽस्माकं हनने च वधे विषये, यतिष्यते
यत्नं करिष्यति । शक्ष्यतीत्यर्थः । एतदुक्तं भवति । योऽस्मच्छत्रुः सहायान्तरनिरपेक्षः
सन् पुरत्रयसंयोगकाले एकेन शरेण तत् प्रमथ्य तेनैवास्मद्वधे शक्तो भविष्यति
सोऽस्मा निगृह्णीया (तू) नान्य इति । अत्र तदेत्यनेन कालस्य, एकेनेपुणा इति साधनस्य,
ताइच भिदामानीयेति कर्त्तव्यस्य, स च हन्तेति कर्तुश्च नियमः कृतः । ईदृशशक्ति-
योगः कस्यापि न स्यादि त्यस्माकं जगदवध्यत्वमेवायातमिति तेषांमाशयः ॥ ३३ ॥
 
"
 

 
A