This page has not been fully proofread.

सव्याख्ये त्रिपुरदइने
 
इति वचनात् भावे लिट् । कस्मै प्रयोजनायेत्यत्राह कलय इति । कलये अनर्थाय ।
मरणायेति यावत् । स्वेषामिति शेषः । फलित र्थकथनमेतत् ।
 
66
 
-
 
66
 
कलिविभीतके तस्य फलेऽनर्थे च संयुगे ।
कलिहि श्रीरिति प्राह शब्द विच्छाकटायनः ॥
विवाहमात्रे त्वजय: कलिशब्दमभाषत ।
युगे चतुर्थे चालक्ष्म्याम् "
 
इति केशवः । तेष/मभिसन्धिस्तु अन्यथेति ख्यायितुं तान् विशिष्टि - निरतैरिति ।
जगदेकलये जगतः एक निन् केवले लये नाशे, निरतैः जगन्नाश एकस्मिन्नेव
बद्धमनस्कैरित्यर्थः ।
 
एकशब्दस्तु धीमद्भिः समाम्नातश्च केवले ।
 
प्रधाने प्रथनेऽन्यस्मिन् समानेऽल्पेऽप्यसौ पुनः ॥
एकत्वसंख्यायुक्ते स्यात् संख्येये तत्र चाप्यसौ ।
नित्यैकवचनान्तः स्य.दिति प्राहुः"
 
इ ति केशवः । उक्तिप्रकारं दर्शयति - जगदधिपेति । जगदधिप ! हे जगत्वामिन्
ते तव, कृपा दया, अस्ति यदि विद्यते चेत् । अस्मास्थिति शेषः । तर्हि वयं
पुरत्रये पुराणां त्रितये, रमेमहि विहरेम । प्रार्थनायां लिङ् । तब करुणा चेदस्माकम्
एकैकं पुरमनुगृहाणेत्यर्थः । कीदृशे पुरत्रये । परमे उत्कृष्टे, अतएव महिते पूजिते ।
पुरान्तरेभ्यो विशिष्टे इत्यर्थः ॥ ३१ ॥
 

 

 
तत्रोक्तं परमत्वं विवृण्वानाः कमपि विशेषं प्रार्थयन्ते -
 
-
 
पृथगहितावध्यं ते जगति चरित्याब्ददशशतावध्यन्ते ।
सुरसत्तम नो निलया गत्या घटनाभियुर्जित मनोनिलया ॥ ३२ ॥