This page has not been fully proofread.

प्रथम आश्वासः ।
 
ततो ब्रह्मणा किं प्रतिपन्न मित्यत्राह-
स विधानेत्यर्थनतः तान् प्रत्यूचे जगद्वितेत्यर्थः ।
दुर्लभमन्यङ्का मन्निर्भरणत्वं लभध्वमन्यं कामम् ॥ ३० ॥
 
--
 
स इति । मोऽसुरैः प्रार्थितो, विधाता ब्रह्मा, इति उक्तप्रकारेण अर्धनतोऽसुर-
कृतात् प्रार्थनाद्धेतोः, तान् प्रति असुरानुद्दिश्य, ऊचे उक्तवान् । "अभितः परितः"
(पा० सू० वा० २-४-४८) इत्यादिना प्रतियोगे द्वितीया । कीदृशः । जगद्विते जगते
जगद्व।सिने जनाय यद्धितं श्रेयः तम्मिन्, अत्यर्थं नतः अत्यन्तं रतः। एतत् प्रार्थिताप्रदाने
हेतुः । उक्तिप्रकारं दर्शयति दुर्लभमिति । अन्यङ्का न्यको दोषः, अविद्यमानो न्यको येषां
तेषां सम्बोधनं । तथा। " युष्मदर्थसारा संबुद्धिः" इति न्यायात् युष्माकमिति सेत्यति ।
युप्माकं, (मन् ) मत्तो, निर्भरणन्त्रं मृतिरहितत्वं दुर्लभं लब्धुमशक्यम् । जगढवःयत्वे
दत्तेऽन्तरस्यापि जगदन्तर्भावात् तदवश्यत्वमपि दत्तं भवति । एतच्चाशक्यमेव ।
देहारम्भकर्मक्षये देहपातम्यावश्यम्भवादिति भावः । अत एवोक्तं निर्मरणत्वं दुर्लभ मिति ।
एतदप्रदाने हेतुराक्यत्वमेव न तु युष्माकं योग्यत्वाभाव इति द्योतयितुं अन्यङ्का इत्यामन्त्रणम्।
इदमेकमेव मम।प्रदेयम् अन्यत सर्व देयमेवत्याह - लभध्वमिति । अन्यं निर्मरणत्व-
व्यतिरिक्तं, कामम् अभिमतं वस्तु, लमध्धं वृणुध्वमित्यर्थः ॥ ३० ॥
 
अथ ते भयन्तरेण जगद्वभ्यत्वमेव वव्रुरिति श्लोकद्वयेनाह
 
२५
 
निरंतर्जगदे कलये तैरित्युक्तर्विचार्य जगदेकलये ।
जगदधिष रमेमहि ते पुरत्रये यदि कृपास्ति परमे महिते ॥ ३१ ॥
 
निरतैरिति । इति उक्तप्रकारेण उक्त ब्रह्मणा कथितैः, तैः असुरैः, विचार्य
मिलित्वा निरूप्य, जगढ़े गदितम् ।
 
6.
 
· धातोरर्थान्तरे वृत्तेर्धात्वथनोपसंग्रहात् ।
प्रसिद्धेरविवक्ष्यत्वं कर्मणोऽकमिका क्रिया " ॥
 
* ' प्रसिद्धे रविवक्षातः' इति धातुवृत्त्यादिपाठ: ।