This page has not been fully proofread.

२४
 
सव्याख्ये त्रिपुरदहने
 
नुष्ठानम्, अधुः धृतवन्तः । धृतरभसमिति क्रियाविशेषणम् । श्रुतो रमसो वेगो यथा तथेति ।
स्वोत्पत्तिसमनन्तरमेव तपश्चेरुरित्यर्थः ।
 
66
 
' रभसस्तु पुमान् वेगे हर्षसंरम्भयोरपि ।
 
त्रि तु स्यान्महतिं द्वे तु म्लेच्छ "
 
इति केशवः
 
। किमर्थं तपश्चक्रु त्यत्रा - उद्याचेति । भुवनमन्तापस्य भुवनम्य
भुवनवासिनो जनस्य यः सन्ताप: पीडा तस्योदयाय उत्पत्तये । लोकपीटा-
सामर्थ्यलाभार्थमित्यर्थः । कथं ते पाप कर्मणि प्रवृत्ता इति शङ्कां शकलयितुं तान्
विशिनष्टि - वृत्ताविति । राजस्यां रजोगुणमय्यां वृत्तांत मा) ने तम
कृतक्रुद्धयः । राजम्यामित्येतत् तामन्यामप्युअलक्षणन् । राजनामसम्वभावा इत्यर्थः ।
हि पाप एवं प्रवृत्तिसंभाविनीति भावः ॥ २८ ॥
 
अथैषामुपासनाविषयो ब्रह्मा; ते प्रसजं च तं स्वाभिमतं प्रार्थयामासुरित्याह-
तैः कामो देवारिप्रवर्धातुम्पति प्रोऽवारि ।
शक्तयाज गतावध्या स्याम वयं सामरण जगतावध्याः ॥ २९ ॥
 
7
 
तैरिति । तैः ब्रतमनुतिष्ठद्भिः देवाविरैः धातुः ब्रह्मणः, प्रमोदे
हर्षे, सति विद्यमाने । कारणभृतेन प्रमोदन कार्यभृतः प्रत्यक्षमावो लक्ष्यते । प्रत्यक्षतायां
सत्यामित्यर्थ: । कामोऽभिमतोऽर्थः अवारि वृतः धातुरित्यनुवाद तेषामुपासना-
विषयो धानैवेति विधिं प्रत्याययति । वरणप्रकारमाह - शक्त्येति । अज, हे ब्रह्मन्,
वयं गतावध्या गतोऽपगतोऽवधिः सीमा यम्याः तया, शक्त्यास्मत्संवन्चिन्या हेतुना,
नामरेण अमरैस्सहितेन, जगता जगद्वासिना जनेन, अवध्या हन्तुमशक्या:,
स्याम । प्रार्थनायां लिङ् । अमराणां जगद्न्तर्भावेऽपि पृथगुपादानं प्राधान्यख्यापनार्थम् ।
ब्राह्मणा आयाताः वसिष्ठोऽप्यायातः इतिवत् । स्वेषां लोकोत्तरशक्तिमत्त्वं केन चिदष्यवध्यत्वं
च वरयामासुरित्यर्थः ॥ २९ ॥
 
+