This page has not been fully proofread.

प्रथम आश्वासः ।
 
२१
 

 
सुदर्शन.वं यच्चकं तच्छिवसंवन्धि पूर्वमभूत् । तम्मिश्चक्रे अतिगृनुमनाः अति-
गृप्नु अत्यर्थ काङ्क्षणशीलं मनो यस्य स तथा । शिवाच्चकादानाभिसन्धित्युरित्यर्थः ।
किमर्थमम्य चक्रादित्सा इत्याह कर्तुमिति । अनायस्य आयासं क्लेशमकृत्वा ।
अस्विधं शत्रुनिग्रहं कर्तुम् । पुरा शिवप्रसाद नाय तपश्चरन् हरिः प्रतिदिनं नियमित-
संयै पद्म: शिवार्चनरूपं तमतिष्ठत् । शिवः तस्य नियमस्थैये परीक्षार्थ अर्चनसमये
पद्ममेकं तिरश्चकार । ततो हरिः तत्सच्यापरिपूरणाय स्वीयं नेत्रमुत्पाच्याचितवान्
इति या पौराणिकी परिद्धिः तामनुसृत्याची विशिनष्टि स्वचक्षुषा इति । स्वम्या मनः
विष्णोश्चक्षुषा उनसङ्ख्यापूरणार्थमुत्पाटितेन नेवण, पूर्णपुष्करचयां पूर्ण: पुष्कराणां
पद्मानां च्यम्समूह: म्यां सा तथा ।
 
पुष्करं करिहस्ता जले वाद्यमु चे युधि ।
स्खेऽब्जे दिव्यसुरायां च तीर्थभेषजभेद्यः ॥
पटहे मुखे त्वन्ये पुमांस्तोंर्य च मारुते ।
 
शेषं च शोमने तु म्यात् भेद्यलिङ्गमिति स्मरेत् ॥ "
 
इति केशवः ॥ २४ ॥
 
पुरा खलु जगदीशम्मन्यतया परम्परं विवढमानी हरिविरिञ्चभूताम् । ततस्तद्भवे-
निर्वापणाय तयोः पुरस्त,ददृष्टोमयकोटि कं ज्योतिलिङ्ग प्रादुरभूत् । ततश्चैतदन्तं यो
यति सजगदीशो मवत्विनि समयं कृत्वा तद्न्तरिक्षया हरिरस्तान विरिञ्च उपरिष्ट्राच
द्वाघीयसा कालेन दवीयांसम् अचानं गत्वापि तदन्तमपश्यन्तौ यथागतं प्रत्यागताविति
पुराणप्रसिद्धिमनुसृत्य भगव-महिमानमुद्वाटयति -
 
सत्वरगत्या यस्य ब्रह्मोवं हरिरधो जगत्यायस्य ।
अविजानानाबादौ विनिवृत्तावन्तमात्तनानावाड़ी ॥ २५ ॥
 
आदौ प्रथमसर्गे, ब्रह्मा विरिञ्चः, जगति ऊर्ध्वं उपरिष्टात्, हरिः विष्णु, अधः
अधस्तात् । सत्वरगत्या सत्वरया सवेगया, गत्या गमनेन हेतुना, आयस्य यलं