This page has not been fully proofread.

प्रथम आश्वासः ।
 
अतिभोनं वरतोयं महता वेगेन गलितमम्बरतो यम् ।
भङ्गं नेतुं गाङ्गं नैव शशाक स्थितं वने तुङ्गाङ्गम् ॥ २२ ॥
 
१९
 
,
 
अतिभोममिति । अम्बरतः आकाशात्, महता अतिशयेन वेगेन । प्रकृत्यादि-
त्वात् तृतीया । गलितं पतितं, अत एत्रातिभीमं भयङ्करं गाङ्गं गङ्गासम्बन्धि,
वरतोयं वरमुत्कृष्टम्, स्वरूपतो महदित्यर्थः न तु पावनमिति । तम्यात्रानुपयोगात् । तोयं
जलं, यं स्थाणु, भङ्गं बाधां, नेतुं न शशाक । गङ्गाहोऽपि यं स्वप्रपातधारण सामर्थ्य
नेतुमशक्तोऽमृदिर्थः । तत्र हेतु:- तुङ्गाङ्गभिति । तुङ्गानि उन्नतानि अङ्गानि शरीरा-
वयचा (नि ? वा: ) यस्य स तथा ।
 
'अङ्गं शरीरावयचे शिरोपायनयोर्गुणे ।
 
66
 
इति केशवः । महाशरीरमित्यर्थः । अम्बरत इत्यवधि निर्देश: पतनस्य दूरीभा-
वैनात्यन्तासयतां द्योतयति। स्थाणुं विशिनटि बने स्थितमिति । वनेऽरण्ये स्थितं,
न तु तत्प्रवाहधारणक्षभं प्रदेशे स्थितमिति भावः । ननु " यस्यापदमरनदी ताः"
इत्यनेन पूर्वमेव गङ्गाधरत्वमुक्तम् । इदानीमपि भयन्तरेण तदेवीच्यते । अतोऽत्र
पौनरुक्त्यं महान् दोषः स्यात् । उच्यते - पूर्वं भगवतिं गङ्गायाः प्राप्तिविहिता ।
इदानीन्तु प्राप्तिन ( नृ ) द्य तस्या भगवद्भ (याधारे न साधाने) सामर्थ्याभावो विधीयते
इति न पौनरुक्त्यम् ॥ २२ ॥
 
पदयोगपाशु पतन्नस्त्रं यस्यार्जुनः पुरा पाशुपतम् ।
नष्टभये नाकारिवाते नाशः क्षणेन येनाकारि ॥ २३ ॥
 
पदयोरिति । अपिशब्दोऽत्र ध्याहत्र्यः । पुरा पूर्वमर्जुनोऽपि भूभारहिया
नरनारायणयोर्नृरूपेण स्थितस्य विष्णोरंशः पार्थोऽपि यस्य स्थाणी: पदयोः पतन
"(लक्षण) हेत्वोः क्रियायाः' (पा० सू० ३-२-१२६) इति हेतौ शता। दुश्चरतपश्चर्यया भगवन्तं
प्रसादयन्नित्यर्थः । आशु अविलम्बितं यथा भवति तथा पाशुपतं पशुपतिर्देवता