This page has not been fully proofread.

प्रथम आश्वासः ।
 
१७
 
यत्संबन्धाद्वन्या भवन्तीत्यर्थः। गगं विशिनष्टि युवा इति । वेताळाव्या वेताला नाम
पिशाचविशेषाः । तेशनल्यास न च ददनुः कुण्डादिनिध युता । वेताल: लिं-
रपि यत्नवे॥ यत्लन्वन्त्राच्या भवतीत्यर्थः । तथा उच्चाः गगनतल पर्यन्तदीर्घाः ।
नीचाः वामनाः । मुण्डी मृताः काशशेवनाः । विज्ञाननाकारा इत्यर्थः । यत्सम्बन्धाद्
हीनानामपि उत्कर्षः तस्योत्कर्षः (किं) कय्यनामिति भावः ॥ १८ ॥
 

 
शिवभक्तः श्वेतो नाम कश्चिद् ब्राह्मणो बभूव । तं मृत्युना ग्रस्यमानं भीतं
शरण, थिंनम् आलोक्य परमकारुणिको भगवान् मृत्युं हत्वा तं रक्षिनवानिति पौराणिकी
प्रसिद्धिः । तदेतदाह
 
येन सशङ्कालस्यः श्वेतो जुगुपे गतो वशं कालस्य ।
सोऽपि स्यादपि प्रकटफला यन्निराक्रिया दक्षेऽपि ॥ १९ ॥
 
येनेति । येन स्थाणुना, श्वेतो जुगुपे रक्षितः । कीदृशः । सशङ्कालस्यः शङ्का
भयं तज्जनितं वैवश्यमालम्यं तेन सह वर्तमानम्तथा । तत्र हेतुः गतो वशं कालस्येति ।
कालम्य मृत्योर्वशं विधेयतां प्राप्तः । किञ्च स्वभक्तपरिबुभूषालक्षणापराधी कालोऽपि येन
स्थाणुना, रयाद् झटिति, अक्षेपि निरस्तः । निगृहीत इति यावत् । भगवन्निराकरणे कस्यापि
न सौख्यमित्याह प्रकटेति । यन्निराक्रिया यस्य निराक्रिया यज्ञभागाप्रदानादि-
-
 
लक्षणा निन्दा, दक्षेऽपि निखिलजगद्वन्धे दक्षप्रजापतावपि प्रकटफला, किं पुनरन्येषु ।
प्रकटं प्रत्यक्षीभूतं फलं कार्य यम्याः सा तथा ।
 
66
 
फलं फाले धने वीर्ये निष्पत्तौ भागलाभयोः ।
सस्ये हेतुकृते चर्मसंज्ञशस्त्र निवारणे ॥
शस्त्राणां च मुखे "
 
-
 
इति केशवः ॥ १९ ॥