This page has not been fully proofread.

सव्याख्ये त्रिपुरदहने
 
यस्येति । यस्य वेकुण्ठेषु द्रोणपुष्पेषु, स्नेहश्च आल, नमलं कर्तुं प्रीतिर्भवति ।
यस्यारिः शत्रुः, आहवे युद्धे, कुण्ठेपुश्च कुण्ठः शख्यभेदाक्षम इपुर्यस्य स तथा ।
आयुधान्तरोपलक्षणभिषुग्रहणम् । कुण्ठायुध इत्यर्थः यस्य चारौ दुष्टनिग्रह करत्व. तू
सुन्दरे, दोष्णि भुजाग्रे, एणश्च मृगो, विद्यते। कीदृशस्य । उच्चारावेण भगवद्वहनता-
(ज्ञा?जा)तगर्वतया उच्चैस्तरः आराव: हुम्भानादो यस्य तादृशेन, गलिना वृषेण, स्पुटं
यथा भवति तथा अटतः गच्छतः ॥ १६ ॥
 
१६
 
यं वा काली नमति स्कन्दोंऽशो यस्य योऽम्बिकालीनमतिः ।
यश्च विनायकतातः प्रमथा येनोवता विनायकतातः ॥ ॥ १७ ॥
 
यमिति । वाशब्द: समुच्चये। यं स्थाणुं, काली भद्रकाली, नमति वा नमस्करोति
स्कन्दो गुहो, यस्यांशो वा पुत्रतया स्थितः एकदेशः । यः स्थाणुः, अम्बिकालीन-
मतिः वा अम्बिकायां पार्वत्यां सक्तचितः । यो विनायकतातश्च विनायकस्य गणपतेः
पिता भवति । येन प्रमथा भूतगणाः, विनायकतातः विगतो नायक: स्वामी
येभ्यम्ते विनायकाः, तेषां भावो विनायकता, तम्या भयहेतोः, उद्घृताश्च रक्षिता
अभवन् । स्वेन नाथवन्तः कृता इत्यर्थः । यः भृत्यक स्त्रत्रपरिवृतो लौकिकी वृत्ति-
मनुवर्त्तत इत्यर्थः ॥ १७ ॥
 
यत्समवेता लाल्या जगतंत्र गणा युताश्च वेतालाल्या ।
उच्चा नीचा मुण्डीभूताः प्रेताश्च डाकिनी चामुण्डी ॥ १८ ॥
 
यत्समवेता इति । एवकारी भिन्नकमोऽन्ययोग व्यवच्छिनत्ति । गणाः श्रीभूत-
गणाश्च, प्रेताः गणविशेषाः, डाकिनो चामुण्डी च यत्समवेता एव येन स्थाणुना
समवेता: परिवारतया संबद्धा एव जगता जगद्वासिना जनेन लाल्या अभिनन्द-
नीयाः । वन्द्या इति यावत् । भवन्तीति शेषः । अत्र डाकिनी चामुण्डीति जातिपरो
निर्देशः । डाविन्य वामुण्डचश्च इत्यर्थः । तामसजातित्वान्निकृष्ट अपि भूतप्रेतादयः