This page has not been fully proofread.

प्रथम आश्वास: 1
 
'यम्याहुरीक्षणमिदं विश्वं नैगमसूक्तयः ।
 
इति । यद्व। विलोक नैस्तेजस्वयात्म
कर्नयनैदीप्ता भवन्ति । अमरलोकनदी यस्य
ताः जटा: आपच्च प्राप्तवती । अयमर्थ:- भगीरथप्रार्थनया स्वर्लोकाद् भूलोक-
मवतरन्ती गङ्गा स्वप्रवाहप्रपातधारणसामर्थ्यवतोऽन्यस्याभावात् तद्धारणे शक्तिमतो
यम्य मूर्धनि पपातेति । यः कृत्या करिणो व्याघ्रस्य वा चर्मणा, वासः वस्त्रं, अकृत
कृतवान् । यस्य कैलासे कैलासाध्ये गिरौ, आवासश्च निवासो भवति । तत्र हेतुः
सौख्यकृतीति । सुखमेव सौख्यम् । चातुर्वर्ण्यादित्वात् प्यङ् । यद्वा सुखयतीति सुखः ।
पचाद्यच् । तस्य भावः सौग्व्यम्, तत्करोतीति सौख्यकृत् ॥ १४ ॥
 
-
 
१५
 
योऽयति गामपि नाकं यस्य करग्राह्यतां जगाम पिनाकम् ।
यः ख्यातः परशाचः श्मशाननिलयोऽपि यो रतः परशौ च ॥ १५ ॥
 
य इति । अपिरनुक्तसमुच्चयार्थः । यः स्थाणुः, नाकं स्वर्ग, गां भूमिं, अपिशब्दाद्
अन्तरिक्षं च । अवति रक्षति । पिनाकं पिनाकाव्यं धनुः । यम्य करग्राह्यतां त्रिलोक
रक्ष,यै करेण उपादेयतां, जगाम च गतवत् ।
 
" पिनाकः श्रीमहादेवचापे शूलायायुचे ।
रजोवर्षे च दण्डे च"
 
इति केशवः । यः श्मशान निलयः श्मश नं पितृवनं तदेव निल्यो वासस्थानं
यस्य स तथा । श्मशानवास्यपि परशौचः अत्यन्तशुद्ध: । ख्यातश्च लोके वेढे
च प्रसिद्धः । लोके हि कश्चित् श्मशानवासी चेदशुद्ध एव भवति । अयन्तु प्रत्युत
श्मशानवा सित्वेऽपि नित्यशुद्ध एव । अनेनास्य लोकोत्तरस्वभावतोक्ता । यः परशौ
कुठारे दैत्य शिरच्छेदनसाधकतमे, रतश्च रक्तो भवति ॥ १५ ॥
 
यस्य च वेकुण्ठेपु स्नेहो यस्यारिराहवे कुण्ठेषुः ।
गलिनोच्चारावेण स्फुटमटतो यस्य दोणि चारावेणः ॥ १६ ॥