2024-01-01 06:19:56 by ambuda-bot
This page has not been fully proofread.
सव्याख्ये त्रिपुरदहने
इत्युक्तलक्षगो वा भगवान् । उभयथापीश्वरत्वमेव भगवत्त्वम् । अवटि नघटवितृत्वं तत्र
किमसंभाव्यमिति भावः । अनेस्पादिदमपान्तरं तत्सत्तायामाप्तो कितलक्षणं प्रमाणं
चास्तीत्युक्तं भवति ॥ १२॥
अथ त्रयोदशभिः श्लोकैः साधितसता कम्येश्वरस्यापदानं प्रकाशयन् वर्णयति-
व्रतममलं कापालं येन धृतं यो ममर्द लङ्कापालम् ।
यदुरास कुम्भीनस्य: स्वपन्ति यो भेदकश्च कुम्भीनस्य ॥ १३ ॥
व्रतभिति। अत्र 'एको द्योतको बहूनामन्त्यः' इति न्यायाद् अन्त्यस्थितः चशब्दः
प्रतिवाक्यमभिसंबध्यते । येनानलं निर्मलं, कापालं कपालसंबन्धि शैवागमप्रसिद्धं व्रतमभ-
भ्यानुष्ठानं, धृतं च । यो लङ्कापालं रावणं, ममर्द च, पीडितवान् । भुजबलमढेन कैलास-
मुद्धृत्योत्क्षिन्तं रावगं पर्वताधी निपात्य उपरिस्थितपर्वततया निश्चेष्टमकरोदित्यर्थः ।
यदुरमि यस्योरःस्थले, कुम्भीनस्यः हारादिवद् भूषणतां प्राप्ता नागस्त्रियः, स्वपन्ति च
निद्रां कुर्वन्ति । उर:स्थल।धिकरणाचा निद्रायाः स्त्रीणामौचित्यात् कुम्मीनसीनामुपादानम् ।
कुम्भीनसः सर्पविशेषः ।
A
'कुम्भीनसो लोहिताहिः कृष्णसर्पः कुलम्धकः । '
इति यादवः । स च विशेयोपादानम्यानुपयोगात् सर्वसामान्य लक्ष्यति । यः
कुम्भीनस्य कुम्भीनां गजानातिनः स्वामी कुम्भीनः । गजासुर इत्यर्थः । तस्य,
भेदकश्च प्राणहारी ॥ १३ ॥
यस्य विलोकनदीप्ता लोका यस्यापदमरलोकनदी ताः ।
योऽकृत कृत्त्या वासः कैलासे यस्य सौन्यकृत्यावासः ॥ १४ ॥
यस्येति पूर्वश्लोकाच्चशब्दोऽत्रानुषज्यते । लोका भूरादयः यस्य स्थाणी,
विलोकनदीताश्च विलोकनेन सर्गोन्मुख स्पन्दशक्तिमात्र परमार्थेन ईक्षणेन, दीप्ताः प्रकाश-
'ानाः । लब्धसता इति यावत् ।
I